This page has not been fully proofread.

५८
 
तिलकम अरीसंग्रहः ।
 
आहरत भगवती षष्ठीदेवीम्, निधत्त पर्यन्तेषु शयनस्य सद्योऽभि-
मन्त्रितां रक्षाभूतिरेखाम्' इत्यादि जल्पता तल्पनिकटोपविष्टेन
शुद्धान्तजरतीजनेन क्रियमाणविर्विधशिशुरक्षाविधानम्, अधि-
कोदवितात्मभिरच लावस्थानैरुत्थाय विस्मितैरिव त्रिभुवनाति-
शायिशोभमर्भकरूपमवलोकयद्भिर्मङ्गलप्रदीपैः प्रकाशिताभ्यन्तरं प्रि-
याया: प्रसूतिगृहमविक्षत् ॥
 
प्रविश्य च सतर्षमुद्भूतप्रहर्षस्मितो विस्मयस्तिमितपक्ष्मणा
लोचनयुगेन स्फुट-भाव्यमानसकलचक्रवर्तिलक्षणां प्रतिक्षणमन-
लोक्य सूनोस्त्रिभुवनविलक्षणामवयवश्रियम्, अमन्दनिर्गतानन्दा-
श्रुविन्दुरप्रतिपादनीयां सुखमयीं कामपि दशां प्राप। निर्गत्य च
विमोचिताशेषबन्धनः सदृशमाधिपत्यस्य भूतेरुदारताया: प्रमोदस्य
च निजस्य विस्मापितजगत्त्रयं मासमात्रमनुदिवस मुत्सवमका-
रयत् ॥
 
अतिक्रान्ते च षष्ठीजागरे, समागते व दशमेऽहि, कारयि-
त्वा सर्वनगरदेवतायतनेषु पूजाम्, मानयित्वा मित्त्रज्ञालिवर्गम्,
अभ्यर्य गुरुजनम्, दत्वा समारोपिताभरणाः सवत्साः सहस्रशो
गा: सुवर्ण च प्रचुरम् आरम्भनि:स्पृहेभ्यो विप्रेभ्य: स्वप्ने शत-
मन्युवाहनो वारणपतिर्दृष्ट इति संप्रधार्य, तस्यैव स्वप्नस्य सदृश-
मात्मीयनान्नश्चैकदेशेन समुदायवाच्येन चार्थेन समर्थितानुहारं
हरिवाहन इति शिशोर्माम चक्रे ।
 
क्रमेण च प्रसवदिवसादारभ्य तत्कालोपजातप्रसवाभिर-
व्यङ्गनीरोगाङ्गयष्टिभिराप्तवया निपुणमबघृताभिर्धात्रीभिरनवरत-
मुपचर्यमाणस्य, शुद्धपक्षचन्द्रमस इव प्रतिदिवसोपचीयमानदेहा-