This page has been fully proofread twice.

उत्पन्नमात्र एव च कार्यान्तरनियन्त्रितोऽप्यननुपालितपरस्परः प्रकटितसंभ्रमः पूर्णपात्रग्रहणाय भूमिपालाभिमुखमचलत् सकञ्चुकिकिरातकुब्जक्षुल्लमूकवामनोऽनेकशतसंख्यः शुद्धान्तवारस्त्रीजनः । प्रमुदितपौरजनजयजयारावपीवरः, आदिशन्निव रङ्गवल्लीयोग्यरत्नानयनाय पृथ्वीतलोपान्तेषु पाथोनिधीन्, बभ्राम मथनभ्रान्तमन्दरविघूर्णितमहार्णवध्वानघर्घरो जगति नान्दीघोषः । प्रसर्पन्नितस्ततः प्रस्तुतपरीहास इव तत्कालमधिगतविकासासु प्रमुदितास्विव दिक्षु चिक्षेप पिष्टातकपिञ्जरं सरोजकिञ्जल्कजालमुन्नानानिलः । प्रचलितारुणपाणिपल्लवम्, आन्दोलितालिनीलालकभङ्गम्, आभङ्गुरमुरोजस्तबकभारेण, रणरणितताररत्नाभरणमालम्, अनिलाहतकल्पलतावनमिव ननर्त सान्तःपुरं नगरनारीवृन्दम् ॥
 
अवनीश्वरोऽपि परमोत्पन्ननिर्वृतिः जलकटाहक्रोडनिक्षिप्तनाडिकानिहितचक्षुषा गणकनिवहेन निश्चित्य देव्याः प्रसवलग्नमागतेन मुहुर्मुहुरनेकप्रकारैः कृतोपवर्णनमाकर्ण्य जन्मग्रहबलं बालकस्य,
कृतमज्जनादिकृत्यः, शुभे मुहूर्ते निवर्तितानुचरलोकः, परिगतप्रान्तमुत्खातखड्गैः समन्ततो वीरपुरुषैः, प्रशस्ततरुपल्लवास्तृतमुखेन द्वारशाखासङ्गिना मङ्गलकलशयुगलेनावभासितम्, साशीर्वादमन्तःप्रकीर्णकुसुमाक्षतकणाभिर्बन्धुवृद्धाभिराबद्धमङ्गलगीतकोलाहलम्,
अदत्तबाह्यपरिजनप्रवेशेन प्रशस्तालापिना सकललौकिकाचारकुशलेन 'कुरुत हरिचन्दनोपलेपहारि मन्दिराङ्गणम्, दत्त द्वारि नूतनं चूतपल्लवदाम, कारयत सर्वतः शान्तिसलिलक्षेपमकृतकालक्षेपम्,
 
[commentary]
 
उत्पन्नेति । पूर्णपात्रम् -- 'हर्षादुत्सवकाले यदलंकाराम्बरादिकम् । आकृष्य गृह्यते पूर्णपात्रं पूर्णानकं च तत् ।'