This page has not been fully proofread.

तिलकमञ्जरीसंग्रहः ।
 
उत्पन्नमात्र एव च कार्यान्तर नियन्त्रितोऽप्यननुपालितपरस्पर:
प्रकटितसंभ्रमः पूर्णपात्रग्रहणाय भूमिपालाभिमुखमचलत् सक चु-
किकिरातकुब्ज क्षुल्लमूकवामनोऽनेकशतसंख्यः शुद्धान्तवारस्त्रीजनः ।
प्रमुदितपौरजनजयजयारावपीवरः, आदिशन्निव रङ्गवल्लीयोग्यरत्ना-
नयनाय पृथ्वीतलोपान्तेषु पाथोनिधन्, बभ्राम मथनभ्रान्तमन्दर-
विघूर्णितमहार्णवध्वानघर्घरो जगति नान्दीघोष: । प्रसर्पन्नितस्ततः
प्रस्तुतपरीहास इव तत्कालमधिगत विकासासु प्रमुदितास्विव दिक्षु
चिक्षेप पिष्टातकपिञ्जरं सरोजकिञ्जल्कजालमुत्रानानिलः । प्रच-
लितारुणपाणिपल्लवम्, आन्दोलितालिनीलालकभङ्गम्, आभङ्गुरमुरो
जस्तबकभारेण, रणरणितताररत्नाभरणमालम्, अनिलाइतकल्पल-
तावनमिव ननत सान्तः पुरं नगरनारीवृन्दम् ॥
 
अवनीश्वरोऽपि परमोत्पन्ननिर्वृतिः जलकटाहक्रोडनिक्षिप्तना-
डिकानिहित चक्षुषा गणकनिवहेन निश्चित्य देव्याः प्रसवलप्रमागतेन
मुहुर्मुहुरनेकप्रकारैः कृतोपवर्णनमाकर्ण्य जन्मप्रहबलं बालकस्य,
कृतमज्जनादिकृत्य:, शुभ मुहूर्ते निवर्तितानुचरलोक:, परिगतप्रा-
न्तमुत्खातखङ्गैः समन्ततो वीरपुरुषैः, प्रशस्ततरुपल्लवास्तृतमुखेन
द्वारशाखासङ्गिना मङ्गलकलशयुगलेनावभासितम्, साशीर्वादमन्त:-
प्रकीर्णकुसुमाक्षतकणाभिर्बन्धुवृद्धाभिराबद्धमङ्गलगीतकोलाहलम्,
अदत्तबाह्यपरिजनप्रवेशेन प्रशस्तालापिना सकललौकिकाचारकुश-
लेन 'कुरुत हरिचन्दनोपलेपहारि मन्दिराङ्गणम्, दत्त द्वारि नूतनं
चूतपल्लवदाम, कारयत सर्वतः शान्तिसलिलक्षेपमकृतकालक्षेपम्,
 
,
 
उत्पन्नेति । पूर्णपात्रम्- 'हर्षादुत्सवकाले यदलंकाराम्बरादिकम् ।
आकृष्य गृह्यते पूर्णपात्रं पूर्णानकं च तत् ।'