This page has been fully proofread twice.

तव्यापारमन्वतिष्ठत् । अनतिबहुषु च व्यतीतेष्वहस्सु, ऋतौ स्नाता शरद्दिवसकरमूर्तिरिव भास्वरं तेजो बभार गर्भमुदरेण । चलितुमसहापि खेलालसं पदन्यासमकरोत् । कृष्णतारोचितामपि क्षीरधवलामधत्त दृष्टिम् । सततमात्मनाधःकृतस्य मध्यस्य गौरवं पश्यन्तौ श्लथत्वमासेदुषो दयितनिर्दयाश्लेषसुखरसस्य च स्मरन्तौ शुचेव श्याममुखतां जग्मतुः स्तनौ । अनपत्यतादर्शनदुःखतप्तां निर्वापयितुमिव बन्धुतामायताः प्रसस्रुः पदन्यासेषु निःश्वासाः । प्रतिदिवसमुपचीयमानगर्भा च सा सकललोकाश्चर्यकारिणोऽभिलाषविभ्रमानभृत तथा हि -- वासभवनाङ्गणभ्रमिषु खिन्ना शरदा प्रसन्ने मानससरःपयसि ससखीजना स्नातुमियेष । विबुधवृन्दपरिवृता शाश्वतेषु सागरान्तरद्वीपसिद्धायतनेषु सांध्यमारब्धमप्सरोभिः प्रेक्षानृत्यमीक्षितुमाकाङ्क्षत् । अपास्तरणपरिकरं प्रकामगुणवन्तमपि भृत्यलोकं पर्यङ्कमिव सावज्ञमैक्षत । सर्वदिग्व्यापिना पत्युरपि प्रतापेन समतप्यत । कृतापकारेऽपि करुणापरा प्राणिनिवहे बभूव ॥
 
पूर्णेषु च क्रमेण किंचित्सातिरेकेषु नवसु मासेषु, सारतिथिवारकरणाश्रितेऽतिश्रेयस्यहनि, पुण्ये मुहूर्ते, यथास्वमुच्चस्थानस्थितैः कौतुकादिव शुभग्रहैरवलोकिते विशुद्धे लग्ने,
लग्नचारुतादर्शनजातपरितोषायामिवोर्ध्वमुख्यां होरायाम्, अग्रत एव जातेन सहितमखिलप्रजाप्रमोदेनाद्वितीयरूपमजनयत्तनयम् ॥
 
[commentary]
 
आनन्देति । खेलालसं लीलामन्दम्, खे आकाशे लालसं उत्सुकं च । कृष्णा तारा कनीनिका, कृष्णतया नीलिम्ना रोचिता च । बन्धुता बन्धुमूहः । अपास्तः रणपरिकरः, अपगतः आस्तरणपरिकरश्च यस्य तम् ।