This page has not been fully proofread.

तिलकमञ्जरीसंग्रहः ।
 
तव्यापारमन्वतिष्ठत्
 
। अनतिबहुषु च व्यतीतेष्वहस्सु, ऋतौ
स्नाता शरद्दिवसकरमूर्तिरिव भास्वरं तेजो बभार गर्भमुदरेण ।
चलितुमसहापि खेलालसं पदन्यासमकरोत् । कृष्णतारो-
चितामपि क्षीरधवलामधत्त दृष्टिम् । सततमात्मनाधः कृतस्य
मध्यस्य गौरवं पश्यन्तौ लथत्वमासेदुषो दयितनिर्दयाश्लेषसुखर-
सस्य च स्मरन्तौ शुचेव श्याममुखतां जग्मतुः स्तनौ । अनपत्य-
तादर्शनदुःखतप्तां निर्वापयितुमिव बन्धुतामायता: प्रसस्रुः पदन्या-
सेषु निःश्वासाः । प्रतिदिवसमुपचीयमानगर्भा च सा सकललो.
काश्चर्यकारिणोऽभिलाष
विभ्रमानभृत तथा हि - वासभवनाङ्ग-

णभ्रमिषु खिन्ना शरदा प्रसन्ने मानससरः पयसि ससखीजना
स्नातुमियेष । विबुधवृन्दपरिवृता शाश्वतेषु सागरान्तरद्वीपसिद्धाय-
तनेषु सांध्यमारब्धमप्सरोभिः प्रेक्षानृत्यमीक्षितुमाकाङ्क्षत् । अपा-
स्तरणपरिकरं प्रकामगुणवन्तमपि भृत्यलोकं पर्यङ्कमिव सावड़मै-
क्षत । सर्वदिग्व्यापिना पत्युरपि प्रतापेन समतप्यत कृतापका-
रेऽपि करुणापरा प्राणिनिवहे बभूव ॥
 
५६
 
पूर्णेषु च क्रमेण किंचित्सातिरेकेषु नवसु मासेषु,
सारतिथिवारकरणाश्रितेऽतिश्रेयस्यहनि, पुण्ये मुहूर्ते, यथास्व-
मुञ्चस्थानस्थितैः कौतुकादिव शुभग्रहैरवलोकिते विशुद्धे लग्ने,
लग्नचारुतादर्शनजातपरितोषायामिवोर्ध्वमुख्यां होरायाम, अग्रत
एव जातेन सहितमखिलप्रजाप्रमोदेनाद्वितीयरूपमजनयत्तनयम् ॥
 
आनन्देति । खेलालसं लीलामन्दम्, खे आकाशे लालसं उत्सुकं च ।
कृष्णा तारा कनीनिका, कृष्णतया नीलिम्ना रोचिता च । बन्धुता बन्धुममूहः ।
अपास्त: रणपरिकरः, अपगतः आस्तरणपरिकरश्च यस्य तम् ।