This page has been fully proofread twice.

सशेखरां स्वकरेण तां चकार ॥
 
दृष्ट्वा च विरतानमेषया दृष्ट्या सुचिरम्, अतिचारुणा तेन वेषग्रहणेन तैश्च तत्कालमाविर्भूतैः प्रियप्रेमातिशयजन्मभिः स्मरविकारैर्द्विगुणतररम्यदर्शनां सुदृढमाश्लिष्य शयनीयमनयत । तत्रैव च तया सह सुष्वाप ॥
 
स्वल्पावशेषायां च क्षपायाम्, अधोमुखविषाणकोटिनोर्ध्वचरणेन लाञ्छनमृगेण विधृतमूलाग्रभागव्यत्यये व्रजत्यस्तमस्ताचलचकोरकामिनीमन्दमन्दाचान्तविच्छायविरसचन्द्रिके चन्द्रमसि, प्रतिवेलमुन्नतानतशिखेषु तत्क्षणमुदयमानमरुणमिव वातायनान्तरेणावलोकयत्सु निजप्रभापहारभीतेषु वासभवनप्रदीपेषु, राजा राजतगिरिशिखरमधिरूढायाः श्वेतवसनस्रग्विलेपनालंकारकमनीयमूर्तेर्मदिरावत्याः शैलराजदुहितुरिव हेरम्बमम्बरादवतीर्य पुरःस्थितं कुचकुम्भविन्यस्तविकटपुष्करेण करेणाकृष्याकृष्य स्तन्यमापिबन्तं स्वप्ने सुरेन्द्रवाहनं वारणमपश्यत् ॥
 
उपशान्तनिद्रश्च मङ्गलतूर्यनिर्घोषेण सप्रहर्षमुत्थाय प्रथमतरमुत्थितायाः 'देवि, संपन्नास्ते गुरुजनाशिषः । प्रसन्ना समासन्न एव देवी राजलक्ष्मीः । भविष्यत्यशेषभूभृच्चक्रचूडारत्नमचिरेणैव
सूनुः ।' इत्युदीर्य प्रकटितादरो मदिरावत्याः स्वप्नमाचचक्षे । सापि बद्धावधाना सविस्मयव्रीडमवनतेन शिरसा तमश्रौषीत् ॥
 
आनन्दभरविजृम्भमाणोद्दामपुलकोपचितसर्वावयवा च प्रतिपन्नेव सद्यो गर्भेण द्विगुणमुपजातशोभा तत्क्षणमजायत । स्थित्वा च किंचित्कालं प्रस्थिते राज्ञि, निर्गत्य रतिगृहाद्यथाक्रियमाणमुचि-