This page has been fully proofread once and needs a second look.

तिलकम खरीसंग्रहः ।
 
५५
 
सशेखरां स्वकरेण तां चकार ॥
 

 
दृष्ट्वा च विरतानमेषया दृष्ट्या सुचिरम्, अतिचारुणा तेन
वेषग्रहणेन तैश्च तत्कालमाविर्भूतैः प्रियप्रेमातिशयजन्मभिः स्मर-
विकारैर्द्विगुणतररम्यदर्शनां सुदृढमाश्लिष्य शयनीयमनयत । तत्रैव
च तया सह सुष्वाप ॥
 

 
स्वल्पावशेषायां च क्षपायाम्, अधोमुखविषाणकोटिनोर्ध्वच
रणेन लाञ्छनमृगेण विधृतमूलाग्र भागव्यत्ययैये व्रजत्यस्तमस्ताचल-
चकोरकामिनीमन्दमन्दाचान्तविच्छायविरसचन्द्रिके चन्द्रमसि, प्र-
तिवेलमुन्नतानतशिखेषु तत्क्षणमुदयमानमरुणमिव वातायनान्तरे-
णावलोकयत्सु निजप्रभा पहारंभी तेषु वासभवनप्रदीपेषु, राजा
राजतगिरिशिखरमधिरूढाया :याः श्वेतवसनस्रग्विलेपनालंकारकमनीय-
मूर्तेर्मदिरावत्याः शैलराजदुहितुरिव हेरम्बमम्बरादवतीर्य पुरःस्थितं
कुचकुम्भविन्यस्तविकटपुष्करेण करेणाकृष्याकृष्य स्तन्यमापिबन्तं
स्वप्ने सुरेन्द्रवाहनं वारणमपश्यत् ॥
 

 
उपशान्तनिद्रश्च मङ्गलतूर्यनिर्घोषेण सप्रहर्षमुत्थाय प्रथमत-
रमुत्थिताया:याः 'देवि, संपन्नास्ते गुरुजनाशिषः । प्रसन्ना समास-
न्न एव देवी राजलक्ष्मीः । भविष्यत्यशेषभूभृच्चक्रचूडारत्नमचिरेणैव

सूनुः ।' इत्युदीर्य प्रकटितादरो मदिरावत्याः स्वप्नमाचचक्षे । सापि
बद्धावधाना सविस्मयब्व्रीडमवनतेन शिरसा तमश्रौषीत् ॥
 

 
आनन्दभरविजृम्भमाणोहाद्दामपुलकोपचितसर्वावयवा च प्र
तिपन्नेव सद्यो गर्भेण द्विगुणमुपजातशोभा तत्क्षणमजायत । स्थित्वा
च किंचित्कालं प्रस्थिते राशिज्ञि, निर्गत्य रतिगृहाग्रद्यथाक्रियमाणमुचि-