This page has been fully proofread twice.

उदग्ररत्नप्रतिपादकप्रतिष्ठम् उभयपार्श्वविन्यस्तचित्रनेत्रगण्डोपधानं विद्रुमदारुपर्यङ्कमधिशयानः, तत्कालसेवागतैर्गान्धर्विकोपाध्यायैः सह वेणुवीणावाद्यस्य विनोदेन दिनशेषमनयत् । अस्तशिखरपर्यस्तमण्डले च तरणौ उत्थाय कृतसकलसांध्यकृत्यो विधाय देवतासपर्यामागृहीतविकटशृङ्गारवेषः, घटितपरिवेषैः सर्वतः परिवृतः शरीररक्षाविधावधिकृतैर्वीरपुरुषैः, अनेकभङ्गरचितरङ्गवल्लीतरङ्गितमसृणमणिकुट्टिमोत्सङ्गम्, क्वचित्सुखासीनसचिवपुत्रविचार्यमाणनव्यकविनिबद्धकाव्यगुणदोषविभागम्, क्वचिद्वाञ्छिताधिकारसेवकचारपरिवार्यमाणविकटवेत्रासनोपविष्टप्रधानसचिवम्, क्वचिल्लिख्यमाननिःसंख्यराजाज्ञालेखमुद्रासिन्दूरपूरारुणीकृतदिवम्, सर्वतश्च प्रकटिताहंकारैः परुषहुंकारवित्रासितजनैरुद्धतांस्तर्जयद्भिर्मान्यलोकं कृताञ्जलिपुटैरावर्जयद्भिर्महाप्रतीहारैः कृतावेक्षणम्, द्वारदेशादपक्रान्तसकलपदातिपरिवारैरुदंशुमणिमुकुटभास्वरशिरोभिर्महा-
-दण्डनायकैरध्यासितमध्यम्, अतिभूयस्तया च राजलोकस्य कृच्छ्रलभ्यनिर्गमप्रवेशावस्थानमास्थानमण्डपमगच्छत् ॥
 
तत्र च नृपतिर्देवताराधनव्यतिकरेण चिरकाललब्धावसरम् अतिदूरदर्शितादरैः प्रधानदौवारिकैः प्रवेश्य प्रवेश्य प्रत्येकशः कारितप्रणामम् उपनीतविविधोपायनकलापं द्वीपान्तरायातमवनीपतीनां
प्रधानप्रणिधिलोकम् अवलोकनासनदानसंभाषणादिना यथोचितं प्रयुक्तेनोपचारेण पूजयित्वा, स्थित्वा च क्षणमास्थाने, विसर्जित-
 
[commentary]
 
वलभिका सौधाग्रप्रदेशः । प्रतिपादकाः पादाकाराः पर्यङ्काधारभूः स्तम्भविशेषाः । पादुकेति पाठान्तरम् । नेत्रं सूक्ष्मवस्त्रम् । रङ्गवल्ली तण्डुलादिचूर्णैर्भक्तिरचना । 'आरचयन्ति रङ्गवल्लीम्' इति वामनः । दण्डः सैन्यम् ।