This page has been fully proofread once and needs a second look.

तिलकमञ्जरीसंग्रहः ।
 
उदग्ररत्नप्रतिपादकप्रतिष्ठम् उभयपार्श्वविन्यस्तचित्रनेत्रगण्डोपधानं
विद्रुमदारुपर्यङ्कमधिशयानः, तत्काल सेवागतैर्गान्धर्विकोपाध्यायैः
सह वेणुवीणावाद्यस्य विनोदेन दिनशेषमनयत् । अस्तशिखरपर्य-
स्तमण्डले च तरणौ उत्थाय कृतसकलसांध्यकृत्यो विधाय देवता.
सपर्या मागृहीतविकट शृङ्गारवेष:षः, घटितपरिवेषैः सर्वतः परिवृतः
शरीररक्षाविधावधिकृतैर्वीरपुरुषैः, अनेकभङ्गरचितरङ्गवल्लीतरङ्गित-
मसृणमणिकुट्टिमोत्सङ्गम्, क्वचित्सुखासीन सचिवपुत्रविचार्यमाणन-
व्यक विनिबद्धकाव्यगुणदोषविभागम्, क्वचिद्वाञ्छिताधिकारसेवक-
चारपरिवार्यमाणविकटवेत्रासनोपविष्टप्रधान सचिवम्, क्वचिल्लिख्य-
माननिःसंख्यराजाज्ञालेखमुद्रासिन्दूरपूरारुणीकृतदिवम्, सर्वतश्च
 
५२
 
प्रकटिताहंकारैः परुषहुंकारवित्रासितजनैरुद्धतांस्तर्जयद्भिर्मान्यलोकं
कृताञ्जलिपुटैरावर्जयद्भिर्महाप्रतीहारैः कृतावेक्षणम्, द्वारदेशादपक्रा-
न्तसकलपदातिपरिवारैरु दंशु मणिमुकुट भास्वरशिरोभिर्महा-
-
दण्डनाय -
कैरध्यासितमध्यम्, अंतिभूयस्तया च राजलोकस्य कृच्छूछ्रलभ्यनि-
र्गमप्रवेशावस्थानमास्थानमण्डपमगच्छत् ॥
 

 
तत्र च नृपतिर्देवताराधनव्यतिकरेण चिरकाललब्धावसरम्
अतिदूरदर्शितादरै:रैः प्रधानदौवारिकै:कैः प्रवेश्य प्रवेश्य प्रत्येकशः का-
रितप्रणामम् उपनीतविविधोपायनकलापं द्वीपान्तरायातमवनीपतीनां

प्रधानप्रणिधिलोकम् अवलोकनासनदानसंभाषणादिना यथोचितं
प्रयुक्तेनोपचारेण पूजयित्वा, स्थित्वा च क्षणमास्थाने, विसर्जित-

 
[commentary]
 
लभिका सौधाग्रप्रदेश:शः । प्रतिपादका:काः पादाकाराः पर्यङ्काधारभू:भूः स्तम्भविशेषाः ।
पादुकेति पाठान्तरम् । नेत्रं सूक्ष्मवस्त्रम् । रङ्गवल्ली तण्डुलादिचूर्णैर्भक्तिरचना ।
'आरचयन्ति रङ्गवल्लीम्' इति वामनः । दण्ड:डः सैन्यम् ।