This page has been fully proofread twice.

गुन्नमितमुखसंज्ञया प्रस्थाप्योभयतः पार्थिवसमूहम्, अन्तः प्रविश्य द्वितीये द्वारे वारणादवततार । निवारितपरिवारलोकश्च द्वारपालैः, परिमिताप्तराजपुत्रपरिवृतश्चरणाभ्यामेव गत्वा मध्यमां मण्डपिकाम्, तन्मध्यभागे तत्क्षणोपलिप्ताया निरन्तरक्षिप्तसरसपुष्करसुरभेरास्थानवेदिकायाः पृष्ठभागे प्रतिष्ठापितं दन्तपट्टमध्यास्त । व्यपास्तसकलविहारकालकल्पितवेषः प्रक्षालितचरणपल्लवश्च परिचारकगणेन, शिशिरवारिणा प्रक्षाल्य मुखेन्दुम्, अग्रतः स्थापिते मणिपतद्ग्रहके प्रक्षिप्य कतिपयानुदकगण्डूषान्, उपस्पृश्य, परिमृज्य वस्त्रपल्लवेन सहस्तपल्लवं वदनम्, आदरगृहीतजलार्द्रतालवृन्तेनान्यतमपरिचारकेण मन्दमन्दमुपवीज्यमानो मुहूर्तमिव स्थित्वा, अङ्गणोपान्तपुञ्जीभूतभूरिभुञ्जानकलोकम्, औत्सुक्यतरलारालिकश्रेणिसंचार्यमाणानेककाञ्चनस्थालीसहस्रम् आहारमण्डपमयासीत् ॥
 
तत्र नृपासनासन्ननिषण्णभिषजि संनिधापितशुकसारिकाचकोरक्रौञ्चकोकिलप्रमुखपत्रिणि यथास्थानमुपविष्टेन प्रधानपार्थिवगणेनान्येन च प्रणयिना राजलोकेन परिवृतः कुर्वन्नन्तरान्तरा सह
सुहृद्भिर्नर्म भोजनकर्म निरवर्तयत् । उपस्पृश्य च समाघ्रातधूपधूमवर्तिः, उद्वर्त्य शरीरं कर्पूरमृगनाभिसंभेदसंभृतामोदेन घ्राणेन्द्रियानन्दिना चन्दनद्रवेण, अग्रहस्तेन गृहीत्वा च ताम्बूलम्, अप्रतिकूलभाषिभिरशेषकलाशास्त्रकृतपरिचयैः परचित्तविद्भिः सुहृद्भिरनुगम्यमानः, गन्धसलिलच्छटासेकशिशिरीकृतसकलभित्तिं क्षणापतत्पवनगुञ्जन्मणिगवाक्षपुञ्जामपराह्रम्यामावासहर्म्यशिखरप्रान्तवार्तिनीं दन्तवलभिकामगच्छत् । तत्र च सितस्वच्छमृदुदुकूलोत्तरच्छदम्
 
[commentary]
 
द्वारेति । पुष्करं पङ्कजम् । पतद्ग्रहः कलाची । आरालिकाः पाचकाः ।