2024-02-01 05:37:35 by Bharadwajraki
 
This page has been fully proofread once and needs a second look.
  
  
  
  तिलकमञ्जरीसंग्रहः ।
  
  
  
   
  
  
  
  गुन्नमितमुखसंज्ञया प्रस्थाप्योभयतः पार्थिवसमूहम्, अन्तः प्रविश्य
  
  
  
   द्वितीये द्वारे वारणादवततार । निवारितपरिवारलोकश्च द्वारपालै,
  
  
  
  लैः, परिमिताप्तराजपुत्रपरिवृतश्चरणाभ्यामेव गत्वा मध्यमां मण्डपिकाम्,
  
  
  
   तन्मध्यभागे तत्क्षणोपलिप्ताया निरन्तरक्षिप्तसरसपुष्कर सुरभेरास्था-
  
  
  
  नवेदिकायाः पृष्ठभागे प्रतिष्ठापितं दन्तपट्टमध्यास्त । व्यपास्तसक-
  
  
  
  लविहारकालकल्पितवेषः प्रक्षालितचरणपल्लवश्च परिचारकगणेन,
  
  
  
   शिशिरवारिणा प्रक्षाल्य मुखेन्दुम्, अग्रतः स्थापिते मणिपतद्ग्रह के
  
  
  
   प्रक्षिप्य कतिपयानुदकगण्डूषान्, उपस्पृश्य, परिमृज्य वस्त्रपल्लवेन
  
  
  
   सहस्तपल्लवं वदनम्, आदरगृहीतजलार्द्रतालवृन्तेनान्यतमपरिचार-
  
  
  
  केण मन्दमन्दमुपवीज्यमानो मुहूर्तमिव स्थित्वा, अङ्गणोपान्तपु-
  
  
  
  श्रीञ्जीभूतभूरिभुञ्जानकलोकम्, औत्सुक्यतरलारालिक श्रेणिसंचार्यमा-
  
  
  
  णानेककाञ्चनस्थालीसहस्रम् आहारमण्डपमयासीत् ॥
  
  
  
   
  
  
  
  "
  
  
  
   
  
  
  
  म्यमानः,
  
  
  
   
  
  
  
  ) 
  
  
  
   
  
  
  
  तत्र नृपासनासन्ननिषण्णभिषजि संनिधापितशुकसारिकाच-
  
  
  
  कोरक्रौ चक ञ्चकोकिलप्रमुखपवित्रिणि यथास्थानमुपविष्टेन प्रधानपार्थिव-
  
  
  
  गणेनान्येन च प्रणयिना राजलोकेन परिवृतः कुर्वन्नन्तरान्तरा सह
  
  
  
  
  
  
  
  सुहृद्भिर्नर्म भोजनकर्म निरवर्तयत् । उपस्पृश्य च समाघ्रातधूपधूम-
  
  
  
  वर्तिः, उद्वर्त्य शरीरं कर्पूरमृगनाभिसंभेदसंभृतामोदेन घ्राणेन्द्रिया-
  
  
  
  नन्दिना चन्दनद्रवेण, अग्रहस्तेन गृहीत्वा च ताम्बूलम्, अप्रति-
  
  
  
  कूलभाषिभिरशेषकलाशास्त्रकृतपरिचयैः परचित्तविद्भिः सुहृद्भिरनुग-
  
  
  
  म्यमानः, गन्धसलिलच्छटा सेकशिशिरीकृतसकलभित्तिं क्षणापतत्प-
  
  
  
  वनगुञ्जन्मणिगवाक्षपुञ्जामपराह्नरम्यामावासहर्म्यशिखरप्रान्तवार्त
  
  
  
  तिनीं दन्तवलभिकामगच्छत् । तवत्र च सितस्वच्छमृदुदुकूलोत्तरच्छदम्
  
  
  
   
  
  
  
  www
  
  
  
   
  
  
  
  ,
  
  
  
   
  
  
  
  ५१
  
  
  
   
  
  
  
  
  
  
  
   
  
  
  
  [commentary]
  
  
  
   
  
  
  
  द्वारेति । पुष्करं पङ्कजम् । पतद्ब्ग्रहः कलाची । आरालिकाः पात्रका:चकाः ।
  
  
  
   
  
  
  
  ।
  
  
  
   
  
  
  
  -