This page has been fully proofread twice.

तरम्भास्तम्भाभिर्लक्ष्मीमनोवृत्तिभिरिव पुरुषोत्तमगुणहार्याभिर्न पुनरेकान्ततोऽर्थानुरागिणीभिः कुलक्रमागतवैशिककलाकलापवैचक्षण्याभिर्विलासिनीभिर्वितीर्णत्रिभुवनजिगीषुकुसुमसायक-
साहायका, ज्ञातनिःशेषपुराणेतिहाससारैः दृष्टसकलकाव्यनाटकप्रबन्धैः परिचितनिखिलाख्यायिकाख्यानव्याख्यानैः सर्वभाषाविचक्षणैः सात्त्विकैरपि राजसभावाप्तख्यातिभिः पूर्वाभिभाषिभिर्गुणग्राहिभिः संतुष्टैः संविभागपरैः परोपकारिभिर्निवासिलोकैः संकुला, सकृतयुगेव सत्पुरुषव्यवहारैः, सब्रह्मलोकेव द्विजसमाजैः, जपानुरागिभिरुपवनैरिव श्रोत्रियजनैः सच्छाया, सर्वाश्चर्यनिधानम्, उत्तरकोसलेषु अयोध्येति यथार्थाभिधाना नगरी ॥
 
यस्यां च वीथीगृहाणां राजपथातिक्रमः, कुमुदखण्डानां राज्ञा सर्वस्वापहरणम्, सूर्योपलानां मित्रोदयेन ज्वलनम् ॥
 
तस्यां च भुवनत्रयाश्चर्यभूतायां नगर्याम्, अवार्यभुजबलः, समस्तैकविष्टपाधिपतया तुल्यरेखया वासुकिवासवयोरवस्थितः, व्य-
 
[commentary]
 
रम्भास्तम्भः कदलीकाण्डः, तथा रम्भायाः तन्नाम्नोऽप्सरोविशेषस्य स्तम्भः सौन्दर्यहर्षप्रयुक्तं जाड्यं गर्व इति यावत् । राजसभावः रजोगुणविशिष्टत्वम्, पक्षे राजसभा राज्ञां सभा च जपानुरागिभिः मन्त्रजपेष्वासक्तैः, जपाकुसुमैररुणवर्णैश्च । छाया कान्तिः, अनातपश्च ।
 
यस्यामिति । राजपथः राजवीथी, राजाज्ञा च राज्ञा चन्द्रेण, नृपेण च । सर्वस्वापहरणं सर्वेषां स्वानां धनानां अपहरणम्, सर्वस्य स्वापस्य निद्रायाः मुकुलीभावस्येत्यर्थः अपहरणं विकासनमिति यावत् । मित्रः सूर्यः, मित्रं सुहृत् ।
 
तस्यामिति । विष्टप लोकः । तुल्यरेखया समानत्वेन । यथा वासुकिर्वासवश्च समस्तभ्स्यापि पातालस्य स्वर्गस्य चैकस्य लोकस्याधिपः, तथा अग्रमपि सम-