This page has been fully proofread once and needs a second look.

तिलकम खरीसंग्रह: ।
 
तरम्भास्तम्भाभिर्लक्ष्मीमनोवृत्तिभिरिव पुरुषोत्तमगुणहार्याभिर्न पुन-
रेकान्ततोऽर्थानुरागिणीभिः कुलक्रमा गतवैशिककलाकलापवैचक्षण्या-
भिर्विलासिनीभिर्वितीर्णत्रिभुवन जिगीषुकुसुमसायक-
साहायका, ज्ञात-
निःशेषपुराणेतिहाससारै:रैः दृष्टसकलकाव्यनाटकप्रबन्धैः परिचितनि-
खिलाख्यायिकाख्यानव्याख्यानैः सर्वभाषाविचक्षणैः सात्त्विकैरपि
राजसभावाप्तख्यातिभिः पूर्वाभिभाषिभिर्गुणग्राहिभिः संतुष्टैः संवि-
भागपरैः परोपकारिभिर्निवासिलोकै:कैः संकुला, सकृतयुगेव सत्पुरुष-
व्यवहारै:रैः, सब्रह्मलोकेव द्विजसमाजैजैः, जपानुरागिभिरुपवनैरिव
श्रोत्रियजनै:नैः सच्छाया, सर्वाश्चर्यनिधानम्, उत्तरकोसलेषु अयो-
ध्येति यथार्थाभिधाना नगरी ॥
 

 
यस्यां च वीथीगृहाणां राजपथातिक्रमः, कुमुदखण्डानां
राज्ञा सर्वस्वापहरणम्, सूर्योपलानां मित्रोदयेन ज्वलनम् ॥
 

 
तस्यां च भुवनत्रयाश्चर्यभूतायां नगर्याम्, अवार्यभुजबलः,
समस्तैक विष्पा धिपतया तुल्यरेखया वासुकिवासवयोरवस्थितः, व्य-

 
[commentary]
 
रम्भास्तम्भः कदलीकाण्डः, तथा रम्भायाः तन्नाम्नोऽप्सरोविशेषस्य स्तम्भः
सौन्दर्यहर्षप्रयुक्तं जाज्यड्यं गर्व इति यावत् । राजसभाव:वः रजोगुणविशि
त्वम्
ष्टत्वम्, पक्षे राजसभा राज्ञां सभा च जपानुरागिभिः मन्त्रजपेष्वास कैः,
क्तैः, जपाकुसुमैररुणवर्णैश्च । छाया कान्तिः, अनातपश्च ।
 
>
 
>
 

 
यस्यामिति । राजपथः राजवीथी, राजाज्ञा च राज्ञा चन्द्रेण, नृपेण च ।
सर्वस्वा
सर्वस्वापहरणं सर्वेषां स्वानां धनानां अपहरणम्, सर्वस्य स्वापस्य निद्रायाः मुकु-
लीभावस्येत्यर्थः अपहरणं विकासनमिति यावत् । मित्रः सूर्यः, मिलंत्रं सुहृत् ।
 

 
तस्यामिति । विष्टप लोकः । तुल्यरेखया समानत्वेन । यथा वासुकिर्वास-
बत्र
वश्च समस्तम्भ्यापि पातालस्य स्वर्गस्य चैकस्य लोकम्स्याधिपः, तथा अग्रमपि सम
 
1
 
-