This page has been fully proofread twice.

पथमधितिष्ठतो वज्रायुधस्य प्रस्थापनीयः । वक्तव्यश्च तत्प्रधानप्रणयी विजयवेगः -- एष यामिनीयुद्धेषु विषमशत्रुसैन्यसंनिरुद्धस्य वज्रायुधस्य पाणिप्रणयितां त्वया नेतव्यः ॥'
 
तथेति तेनाङ्गीकृतादेशश्चोत्थाय तैः प्रधानराजलोकैः परिवृतः, प्रवर्त्यमानकुलदेवताविशेषपूजम्, अभ्यर्च्यमानमुनिजनम्, आरब्धनिर्विच्छेदसांतानिककर्मकाम्यक्रतुशालम्, आगृहीतकनकभृङ्गारेण हरितकुशगर्भपाणिना पुरोहितेन तत इतः प्रकीर्यमाणशान्त्युदकशीकरम्, अहरहः श्रोत्रियविश्राणनार्थमाह्रियमाणानां कुण्डपरिमण्डलोध्नीनां गवामुत्कर्णतर्णकानुसृताभिः परम्पराभिरापूर्यमाणबाह्यकक्ष्यान्तरम्, उपनीतकुसुमफलताम्बूलेन पुरोवर्तिना नृपतिज्ञातिलोकेन होराकृष्टिषु नियुञ्जानेन अङ्गुष्ठकादिप्रश्नं प्रति प्रवर्तयता कर्णपिशाचिकाविधानेष्ववधापयता दृष्टशुभस्वप्नफलानि पृच्छता दिवानिशमुपास्यमाननैमित्तिकम्, अवधीरितापरकथेन स्थानस्थानेषूपविष्टेन निरपत्यपूर्वनृपतिपुत्रलाभोपायप्रधानाः पौराणिककथाः प्रस्तावयता देवद्विजप्रसादादिहापि सर्वं शुभं भविष्यतीति प्रकृते योजयता राजलोकेनातिवाह्यमानदिवसम्, आप्तोपदिष्टदृष्टप्रत्ययौषधपानप्रसक्ताभिः प्रथमालापजिघृक्षया च देव्याः पुत्रो भविष्यति न वेति संनिधावेव परिचारिकाभिरनुयुज्यमानानामप्रगल्भशिशूनां भीतभीतेन मनसा वचनमाकर्णयन्तीभिः उज्झितान्यकर्तव्येन वृद्धसंप्रदायागतानि विविधौषधानि प्रयुञ्जानेन महानरेन्द्रलिखितान्
मन्त्रकरण्डकानाबध्नता शुद्धान्तजरतीजनेन शश्वत्क्रियमाणगर्भग्र-
 
[commentary]
 
तथेति । कुण्डवत् परिमण्डलं ऊधः यासां तासां कुण्डपरिमण्डलोध्नीनाम् ।
नरेन्द्राः मान्त्रिकाः । करण्डकः अल्पः संपुटः । एतादृशे प्रकरण एव