This page has been fully proofread once and needs a second look.

तिलकमञ्जरीसंग्रहः ।
 
पथमधितिष्ठतो वज्रायुधस्य प्रस्थापनीयः । वक्तव्यश्च तत्प्रधानप्रणयी विजयवेगः -
णयी विजयवेग:
- एष यामिनीयुद्धेषु विषमशनुत्रुसैन्यसंनिरुद्धस्य
वज्रायुधस्य पाणिप्रणयितां त्वया नेतव्यः ॥ '
 
"
 

 
तथेति तेनाङ्गीकृतादेशश्चोत्थाय तैः प्रधानराजलोकै: परि-
कैः परिवृत:तः प्रवर्त्यमानकुलदेवताविशेषपूजम्, अभ्यर्च्यमानमुनिजनम्,
आरब्धनिर्विच्छेदसांतानिककर्मकाम्यक्रतुशालम्, आगृहीतकनकभू-
भृङ्गारेण हरितकुशगर्भपाणिना पुरोहितेन तत इतः प्रकीर्यमाणशा-
न्त्युदकशीकरम्, अहरहः श्रोत्रियविश्राणनार्थमा ह्रियमाणानां कुण्ड-
परिमण्डलोध्नीनां गवामुत्कर्णतर्णकानुसृताभिः परम्पराभिरापूर्य-
माणबाह्यकक्ष्यान्तरम्, उपनीतकुसुमफलताम्बूलेन पुरोवर्तिना नृप-
तिज्ञातिलोकेन होराकृष्टिषु नियुञ्जानेन अङ्गुष्ठकादिप्रश्नं प्रति प्रवर्त-
यता कर्णपिशाचिकाविधानेष्ववधापयता दृष्टशुभस्वप्नफलानि पृच्छता
दिवानिशमुपास्यमाननैमित्तिकम्, अवधीरितापरकथेन स्थानस्था-
नेषूपविष्टेन निरपत्यपूर्वनृपतिपुत्रलाभोपायप्रधानाः पौराणिककथा:
थाः प्रस्तावयता देवद्विजप्रसादादिहापि सर्वं शुभं भविष्यतीति प्रकृते
योजयता राजलोकेनातिवाह्यमानदिवसम्, आप्तोपदिष्टदृष्टप्रत्ययौ-
षधपानप्रसक्ताभिः प्रथमालापजिघृक्षया च देव्याः पुत्रो भविष्यति
न वेति संनिधावेव परिचारिकाभिरनुयुज्यमानानामप्रगल्भशिशूनां
भीतभीतेन मनसा वचनमा कर्णयन्तीभिः उज्झितान्यकर्तव्येन वृद्ध-
संप्रदायागतानि विविधौषधानि प्रयुञ्जानेन महानरेन्द्रलिखितान्

मन्त्रकरण्डकानाबभ्रध्नता शुद्धान्तजरतीजनेन शश्वत्क्रियमाणगर्भप्ग्र-

 
[commentary]
 
तथेति । कुण्डवत् परिमण्डलं ऊधः यासां तासां कुण्डपरिमण्डलोघ्नध्नीनाम् ।

नरेन्द्राः मान्त्रिकाः । करण्डकः अल्पः संपुटः । एतादृशे प्रकरण एव