2023-02-19 11:24:28 by ambuda-bot
This page has not been fully proofread.
तिलकमञ्जरीसंग्रहः ।
विस्मयमयीव प्रमोदमयीव क्रीडामयीव धृतिमयीव हासमयीव सा
विभावरी बिराममभजत ॥
जातप्रभोद्भेदायां च पाकशासनककुभि शयनादुत्थितस्य
निर्वर्तित निरवशेष प्रभातावश्यकविधेः अवसरोपस्थायिना वारिकज-
नेन विरजीकृत विविक्ततलायामविरलप्रसूनप्रकरभाजि देवतागृहप्राङ्ग-
णवितर्दिकायामुपविष्टयाख, दर्शनार्थिनो महर्षयः श्रोत्रिया: प्रधान-
मन्त्रिणोऽमात्यवृद्धा मूर्धाभिषिक्तनृपतयो महासामन्ता ज्ञातयः
सुहृदः समग्रनगरलोकाग्रेसराच पौरा: समाजग्मुः ॥
प्रतीहारसूचिताश्च प्रविश्य यथोचितकृतप्रणामा: परिजन-
विश्राणितेषु यथायोग्यं स्वासनेषूपाविशन् । क्षणमात्रनिभृतैश्च तैरपूर्व-
वदनच्छायावलोकनोल्लसितचित्तवृत्तिभिर्देवताप्रसादविषये कृतप्रश्नः
शक्रावतारगमनपुरःसरं राजलक्ष्मीस्वस्थानगमनपर्यवसानं सर्वमेव
यथावृत्तं प्रदोषवृत्तान्तमकथयत् । आदिष्टान्यतमपरिचारकोपनीतं च
तं त्रिदशादासादितं दिव्यहारमङ्गुलीयकं चादर्शयत् । तत्क्षणोपजात-
परमप्रीतिभिश्च तैः कौतुकवशेन मुहुः कथामावर्तयद्भिः, मुहुर्महि-
मानमुत्कीर्तयद्भिः, मुहुः पुण्यपरिणतिं प्रपञ्चयद्भिः, विस्मयस्मेर-
दृष्टिभिरनेकप्रकार मभिनन्द्यमानः परां मुदमदत्त । प्रस्तुतकथावि-
छेदे च तैः प्रवर्तितो गृहगमनाय किमपि ध्यात्वा तिर्यग्वलित-
दृष्टिः, अनतिदूरोपविष्टं महोदधिनामानं प्रधानरत्नाध्यक्षमैक्षत ॥
ससंभ्रमोपसृतं च तं सादरमवदत् - 'भद्र, चन्द्रातपाभि-
धानोऽयं हारः प्रतिदिवसमर्चनीयानां चिन्तामणिप्रभृतीनां प्रधान-
रत्नानां मध्यवर्ती कर्तव्य: । अयमपि बालारुणाख्यो दिव्याङ्गुली-
यकालंकारः स्वमर्यादातिवर्तिनां दुष्टसामन्तानां दमनाय दक्षिणा-