This page has been fully proofread twice.

तिचिदप्यहानि दक्षिणाशाविभूषणेषु त्रिकूटमलयादिषु वेलापर्वतेषु, क्षीरोदप्रभृतिषु महार्णवेषु, नन्दीश्वरप्रमुखेषु द्वीपेषु, अन्येषु चातिरमणीयेषु प्रदेशेषु विहृत्य, भूयस्तत्रैव तुहिनाचलशिखरवनराजिराजतदर्पणे स्वसद्मनि पद्मनाम्नि महाह्रदे गन्तव्यम् । त्वमपि मदनुज्ञया गच्छाधुना स्वमावासम् । अध्यास्स्व राज्यधुराम् । आधेहि विषयोपभोगसुखेषु प्रणयम् । आत्मदर्शनामृतेन विरहाकुलीकृतप्राणाः प्रीणीहि सर्वाः प्रणयिनीः । कुरु सफलानि रङ्गशालासु
लासिकाजनस्य निजावलोकनेन लास्यलीलायितानि, अपराण्यपि नियमग्रहणकालत्यक्तानि । चिन्तय निराकुलः सकलानि राजकार्याणि । अद्यैव तव मया व्यपनीतो नियमनिगडग्रन्थिबन्धः ।'
इत्यभिधाय दत्त्वा च शंसितप्रभावमवतार्य करतलाद्बालारुणाभिधानं प्रधानरत्नाङ्गुलीयकम्, ईषत्प्रचलितोत्तमाङ्गा कराञ्जलिबन्धसमकालं स्मितमुखी झगित्यदर्शनमगात् ॥
 
गतायां च तस्यां सविषादविस्मयः स्थित्वा पार्थिवः क्षणं कोणमेकमायतनस्याश्रित्य, परिचारकैः पूर्वमेव प्रकल्पितं कुशतल्पमगात् । निषण्णस्य चास्य संजातपरमनिर्वृतेरतीतमनुष्यभावमिव
देवभूयं गतमिव भुवनत्रयसृष्टिसंहारक्रियाक्षममिव देवताकृतबहुमानमात्मानं मन्यमानस्य, क्षणं शक्रावतारगमनमुत्प्रेक्षमाणस्य, क्षणं ज्वलनप्रभस्य रूपसंपदं निरूपयतः, क्षणं शक्रावतारायतनलब्धस्य मुक्ताफलहारस्य प्रभावमद्भुतं भावयतः, क्षणमात्मनः कण्ठच्छेदकर्मणि कठोराशयतां विमृशतः, क्षणमग्रतः सहसैव दर्शितदिव्यनिजरूपां राजलक्ष्मीं ध्यायतः, क्षणं तस्याः प्रकटितप्रसादातिरेकस्पृहणीयानि श्रवणामृतस्यन्दीनि जन्मफलभूतानि जल्पितानि स्मरतो