This page has been fully proofread twice.

यस्तासां निवेदयिष्यति । एको महोदरः प्रयत्नेन रक्षणीयः । तेन त्वीदृशेष्वतिनिपुणदृष्टिना गोपितोऽपि गाढमवगाढस्त्वदीयालापस्य तात्पर्यार्थः । कथयिष्यति च केनापि प्रकारेण निष्कारणापकारी नियतमेष जाल्मः । प्रकृतिकेलिप्रियतया कोपयिष्यति च ताः कामम् । एवं च बुद्धिकौशलेन रक्षितमपि बलात्तवागतं व्यसनमप्रतिविधेयम् ।' इत्युक्त्वा विरराम ॥
 
क्षितीशोऽपि तेन प्रसादातिशयशंसिना श्रियः परिहासवादेन द्विगुणतरोपजातसंमदः स्मित्वा मन्दमवदत् -- 'देवि, प्राञ्जलोक्त्या कृतं प्रार्थनमतिव्रीडाकरमिति मन्यमानेन मया प्रयुक्तेयमीदृशी वचनयुक्तिः, न तु भयेन । त्वया हि प्रसादपरया संप्रति कृतः स्वीकारः । पुरंदरादप्यहं न बिभेमि, किं पुनर्महोदरात् । किं विलम्बते, यात्वयमिदानीमेव गुह्यकः । शक्नोति यदि न रक्षितुं गुह्यम्, आवेदयतु शतगुणीकृत्य मद्भाषितमिदम् । ता अपि सपत्नीबहुमाननिशमनोत्पन्नमत्सराः कुप्यन्तु कामं पुत्रकाम्यन्त्यः । किं मे करिष्यन्ति कुपिता अपि । मया नैव ताः प्रसादनीयाः । त्वयि कृतप्रसादायामिदानीमपगता मे तदीयचिन्ता । यथा मदिरावत्यास्तथा तासामपि त्वया पुत्रो जनयितव्यः । एवं च तत्कृता कदर्थना मे नास्ति । वृथैव मां भगवती भीषयते ।'
 
इत्युक्तवति राजनि विहस्य जातहर्षा लक्ष्मीः पुनरवोचत् -- 'राजन्, कृतमतः परं नर्मकर्मणा । जिता त्वयाहम् । किं त्वतिमात्रचतुरोऽपि वश्ञ्चितस्त्वमेतेन दर्शितालीकोन्नतिना महापुरुषता-
 
[commentary]
 
क्षितीश इति । प्राञ्जलोक्तिः अनागरकवत् ऋजु कथनम् । पुत्रकाम्यन्त्यः पुत्रंरम् आत्मनेना इच्छन्त्यः ।