This page has been fully proofread twice.

सहवासिनी जङ्गमा कल्पलता । किं न प्रयच्छसि प्रसन्ना प्रणयिनाम् ; किं वा न विदधासि कल्याणमाराध्यमानानुजीविनाम् । यद्यपि त्वया कथंचिदुपजातकृपया मनोरथानामप्यपथभूताः सकललोकहृदयहारिणः सुप्रसादसदृशाः पृथक्पृथग्दर्शिताः समृद्धिविशेषाः ; तथाप्येतेषु नास्ति मेऽभिलाषः । अमुनैव पूर्वपुरुषप्रभावोपार्जितेन विभवलेशेन कृतार्थोऽहम् । न मे प्रयोजनं दिव्यजनोचितैरुपभोगैः । अथ येन केनचित्प्रकारेणानुग्राह्योऽयं जनः ; ग्राहयितव्यश्च कमप्यभिप्रेतमर्थम् ; तदलमन्येन । इदमेव प्रार्थितासि -- यथाहमेषामशेषभुवनवन्दितावदातचरितानां चतुरुदधिवेलावधिवसुंधराभुजामिक्ष्वाकुवंश्यानामवनीभृतां पश्चिमो न भवामि ; यथा च देवी मदिरावती जगदेकवीरात्मजप्रसविनीनामस्मत्पूर्वपुरुषमहिषीणां महिमानमनुविधत्ते; तथा विधेहि ।' इत्यभिधाय लज्जया किंचिदवनतमुखोऽभवत् ॥
 
देव्यपि श्रीरीषदवनमितवदनतामरसा अस्य वचसो विविञ्चती तात्पर्यमुज्झितायासनिस्तरङ्गतारकेण चक्षुषा क्षणमात्रमतिष्ठत् । मुहूर्ताच्च किंचिदुन्नमितवदना शरज्ज्योत्स्नाविशदेन दशनांशुजालकेन
स्वमनसः प्रसादमिव दर्शयन्ती मन्दं मन्दं विजहास । व्याजहार च -- 'नरेन्द्र, निजगोत्रसंततेरविच्छेदाय मदिरावत्याः पुत्रमिच्छसीति निश्चितं मया । केवलमिदं पृच्छामि -- किमेष वक्रया वचनभङ्ग्या युक्तिगम्यः कृतोऽर्थः । पुत्रं देहि मदिरावत्या इति व्यक्तमेव किं नोक्तम् । अन्यथोक्ते कुतोऽपि वृत्तान्तमुपलभ्य समुपजातेर्ष्याः कदर्थयिष्यन्ति मामन्या अपि प्रणयिन्य इति कच्चिदाशङ्का ? न कश्चिदत्रास्ति दुर्जनः प्रतिपक्षो वा तवास्मत्परिजने,