This page has been fully proofread twice.

किं तावन्मदनुभावासादितदिव्यशक्तिः प्रत्यहमितो गत्वा गृहीतविकटप्रसाधनशुद्धान्तवनिताबृन्दपरिवृतः कनकगिरिकंदरप्रभानुलिप्तपादपेषु कल्पतरुतलनिषण्णकिंनरारब्धगान्धारग्रामगीतिरमणीयेषु
सविभ्रमभ्राम्यदभ्रमुवल्लभकरावभज्यमानसंतानकसरसपल्लवेषु नन्दनवनाभ्यन्तरेषु सविस्मयत्रिदशपालिकावलोकितः क्रीडासुखमनुभवसि । अथाधुनैवाधिगतविद्याधरेन्द्रभावः संकल्पानन्तरोपनतमनल्पवातायनसहस्रालंकृतममलचीनांशुकवितानलम्बमानमुग्धमौक्तिक
-प्रालम्बं विमानमधिरुह्य विदग्धवल्लभाप्तसुहृत्कदम्बकानुयातो विलोकयन्विविधान्याश्चर्याणि, सशैलद्वीपकाननामुदधिमर्यादां मेदिनीं पर्यटसि । किं बहुना । अन्यदपि यत्ते मनसि वर्तते, तत्सर्वमावेदय, येनाचिरात्संपादयामि ॥'
 
इति वादिनीमेव तां नरपतिरुपजातसंमदः सप्रश्रयमवादीत् -- 'देवि, सर्वमुपपन्नमेतत् । किं न संभाव्यते । प्रणतसुरसहस्रमौलिविश्रान्तपादः पुरंदरोऽपि देवस्त्वत्प्रसादादासादयति सुरलोकराज्यसुखानि । सागरोऽपि त्वयि संभूतायां रत्नाकरत्वमुपगतः । तिष्ठन्तु चैते । नीचप्रकृतयोऽपि त्वया परिगृहीता जगति गुरुतां परामागता दृश्यन्ते । तथाहि -- प्राणिविशेषास्थिशकलमपि मुख्यः पावनानां शङ्खः, भुजङ्गकुलदूषितमपि वन्द्यं चन्दनम्, प्राकृतजनगृहीतदण्डमपि छायार्थिभिरुत्तमाङ्गोपरि धार्यते छत्रम् । किं च वर्ण्यते -- क्षीरजलधिगर्भसंभवा द्वितीया कामधेनुस्त्वम्, सुरद्रुम-
 
[commentary]
 
ग्रामः स्वरसंदोहः । अभ्रमुवल्लभः ऐरावतः । त्रिदशपालिकाः देवपङ्क्तयः, देवस्त्रिय इति परे ।
 
इतीति । भुजङ्गाः सर्पाः, धूर्ताश्च । दण्डः यष्टिः, दण्डना च ।