This page has been fully proofread once and needs a second look.

तिलकमञ्जरीसंग्रहः ।
 
किं तावन्मदनुभावासादितदिव्यशक्तिः प्रत्यहमितो गत्वा गृहीत-
विकटप्रसाधनशुद्धान्तवनिताबृन्दपरिवृतः कनकगिरिकंदरप्रभानुलि-
४१
 
प्तपादपेषु कल्पतरुतलनिषण्णकिंनरारब्धगान्धारग्रामगीतिरमणीयेषु

सविभ्रमभ्राम्यदभ्रमुवल्लभकरावभज्यमानसंतानकसरसपल्लवेषु नन्द-
नवनाभ्यन्तरेषु सविस्मयत्रिदशपालिकावलोकित:तः क्रीडासुखमनु-
भवसि । अथाधुनैवाधिगत विद्याधरेन्द्रभाव:वः संकल्पानन्तरोपनतम-
नल्पवातायनसहस्रालंकृतममलचीनांशुकवितानलम्बमानमुग्धमौक्ति
-
प्रालम्बं विमानमधिरुह्य विदग्धवल्लभाप्तसुहृत्कदम्बकानुयातो
विलोकयन्विविधान्याश्चर्याणि, सशैलद्वीपकानना मुदधिमर्यादां मेदि-
नीं पर्यटसि । किं बहुना । अन्यदपि यत्ते मनसि वर्तते, तत्सर्व-
मावेदय, येनाचिरात्संपादयामि ॥
 
6
 

 
इति वादिनीमेव तां नरपतिरुपजातसंमदः सप्रश्रयमवादीत् --
देवि, सर्वमुपपन्नमेतत् । किं न संभाव्यते । प्रणतसुरसहस्रमौलि -
विश्रान्तपाद:दः पुरंदरोऽपि देवस्त्वत्प्रसादादासादयति सुरलोकराज्य-
सुखानि । सागरोऽपि त्वयि संभूतायां रत्नाकरत्वमुपगतः । तिष्ठन्तु
चैते । नीचप्रकृतयोऽपि त्वया परिगृहीता जगति गुरुतां परामा-
गता दृश्यन्ते । तथाहि -- प्राणिविशेषास्थिशकलमपि मुख्य:यः पाव-
नानां शङ्खः, भुजङ्गकुलदूषितमपि वन्द्यं चन्दनम्, प्राकृतजनगृही-
तदण्डमपि छायार्थिभिरुत्तमाङ्गोपरि धार्यते छत्रम् । किं च
वर्ण्यते -- क्षीरजलधिगर्भसंभवा द्वितीया कामधेनुस्त्वम्, सुरद्रुम-

 
[commentary]
 
ग्रामः स्वरसंदोहः । अभ्रमुवल्लभः ऐरावतः । त्रिदशपालिका:काः देवपङ्क्तयः,
देवस्त्रिय इति परे ।
 

 
इतीति । भुजङ्गाः सर्पाः, धूर्ताश्च । दण्डः यष्टिः, दण्डना च ।
 
T 6
 
"