This page has been fully proofread twice.

र्थनासु, न कृतः प्रणामः प्राणसंशयेऽपि शत्रोः, तस्य भुवनत्रयश्लाघनीयचरितस्य नरपतेः प्रकृत्यैव पावनमतिप्रशस्तललितललाटलेखाक्षरमारूढच्छवि च्छत्रसदृशाकारमर्पय मे कपालकर्परं प्रत्यग्रमेकम् ; यदपवर्जितैरसृग्भिः पुण्यासु कृष्णचतुर्दशीषु दुर्विनीतक्षत्रियनरेन्द्रनिहतस्य जनयितुर्जामदग्न्यमुनिरिव मुहुर्मुहुः करोमि तर्पणम् ॥'
 
इति ब्रुवाणं च किंचिद्विहस्य पुनरुवाच नक्तंचरं नृपतिः -- 'प्रेतनाथ, नान्यथोदितं भवता । तथ्यमेवेदम् । कृताः शतकृत्वो मया संग्रामाः । हताश्च संख्यातीताः क्षत्रियक्षोणीपतयः । किं त्वनेकराजकार्यव्याप्पृततया कदाचिदप्यकुर्वता दिव्यकार्यपर्यालोचनम्, अतीन्द्रियज्ञानविकलतया स्वयमनावेदितमजानता परेषां हृदयगतमर्थम्, अशृण्वता च युष्मद्विधानामत्र विषये कुतश्चिदप्यर्थित्वमुद्यमं च धर्मक्रियाकल्पविषयम्, अल्पमपि न कृतस्तत्कपालानां संग्रहः । तद्यदि नातिमात्रमवसीदति पितृप्रयोजनम्, अनभ्यर्णवर्ती वा पूर्वसूचितः पुण्यदिवसः, तत्प्रतीक्षस्व कतिचिद्दिनानि ; यावत्क्वचित्तदवाप्तिर्भवति । अथ न सह्यः कालातिपातः, तदिदमेव मे स्वीकुरु शिरः । केवलं विलोकय, चिरं विचारय च चेतसा । यदि संभवन्ति कतिचिदिह पूर्वसूचिता गुणाः, प्रीयते वा चक्षुरुत्तमाङ्गलक्षणविधिविचक्षणस्य, तन्न किंचिदन्यान्वेषणेन ॥'
 
स पुनरब्रवीत् -- 'नृपवरिष्ठ, सुष्ठु शुभलक्षणम् । सुष्ठु चक्षुष्यम् । किं विलोक्यते, किं वा विचार्यतेऽस्य जात्यस्येव जात-
 
[commentary]
 
अपवर्जितैः क्षरितैः । नरेन्द्रः राजा, मन्त्रसाधकश्च ।