This page has been fully proofread twice.

तवैव प्रमत्ततासौ, यज्जानतापि नीतिमार्गमादित एव त्वया नोपदिष्टोऽस्मभ्यमेष क्रमः । किमिदानीं कुर्मः । प्रस्तुतमिदं कर्म । कृतश्च निश्चलो मनसि संकल्पः -- यावन्नैष परिसमाप्तः कल्पः, तावदल्पाप्यनुवृत्तिरुपचारो वा न कस्यचिद्दैवतस्य विवक्षितफलापेक्षया कर्तव्योऽस्माभिः । अवधार्य चेदं धीमता न कार्यः प्रस्तुतेऽस्मिन्नस्मत्कर्मणि कार्यसिद्धिविषयो विकारः ; नापि कतिचिद्दिनानि
प्रार्थनीयः पूजोपचारः । यदि चाभ्यवहारेण प्रयोजनं पूज्यस्य, ततः सज्जा वयं तदुपपादनाय । गृह्यतामयम्, उपयुज्यतां च विविक्तमस्यैव देवतागृहस्य स्पृहणीयतममाश्रित्य कोणमेकमखिलोऽप्येष देव्या विशेषपूजार्थमाहृतोऽद्य हृद्यानेकफलमूलोपदंशो दृष्टमात्रः क्षुदुपबृंहणो मोदकादिप्रभूतो भक्तबलिः ॥
 
इत्युक्तवति भूपे भूयोऽप्यसौ सहासमवदत् -- 'नरेन्द्र, न वयं पक्षिणः न पशवः, न मनुष्याः । कथं फलानि मूलान्यन्नं चाहरामः । क्षपाचराः खलु वयम् । व्याघ्राणामिवास्माकमात्मभुजविक्रमोपक्रीतमामिषमाहारः । तस्य चिन्तय प्राप्त्युपायम् । किमनेन
कर्णोद्वेगजनकेन द्विजस्येव मदिरास्वादसौन्दर्यकथनेन भक्ष्येतरवस्तुतत्त्वप्रकाशनेन । यदि वा अन्येऽपि बहवः क्षुद्रसाधकाः संप्रति खलीकर्तुमुद्यताः स्वामिनीम् ; तदीयदेहावयवेष्वेव सिद्धा तत्प्राप्तिः । आस्स्व तावन्निराकुलः । केवलं याचे किंचन । त्वया हि बहवः कृताः संग्रामाः ; हताश्च संख्यातीताः क्षत्रियक्षोणिपतयः । तत्र, येन कदाचिदपि नानुभूतो भङ्गः संगरेषु, न दर्शितं वैमुख्यमर्थिजनप्रा-
 
[commentary]
 
विकारः अन्यथाबुद्धिः । उपदशः व्यञ्जनविशेषः । भक्तं अन्नम् ।
 
इतीति । खलीकर्तुं उपद्रोतुम् । संगरः युद्धम् ।