This page has been fully proofread once and needs a second look.

तिलकमञ्जरीसंग्रहः ।
 
नामन्त्रयसे । मित्रीकृते हि मयि साधकानामभीष्टसिद्धिः । किमिय-
मैश्वर्यमदनिश्चेतना वितन्यमानमतिमहान्तमपि त्वया पूजोपचारं
पश्यति । दृष्ट्वा च किं प्रकृतिचभ्वञ्चला चेतस्यवधारयति । कृताव-
धारणापि किमेकान्ततो वीरपुरुषसाहसाक्षिप्तहृदया पक्षपातं गृह्णाति ।
गृहीतपक्षपातापि किमवज्ञया विपक्षीकृतेन मया कृतप्रतिबन्धा
बध्नाति वरप्रदानाय बुद्धिम् । तदलमबुद्धिपूर्वकेण बुधजनहासका-
रिणा निरवधिक्लेशैकफलेन फल्गुनानेन सेवाप्रकारेण । यदि स्फु-
टमेव फलमुत्कृष्टमीप्ससि, लिप्ससे वा विघ्नविरहितं जपध्यानादि-
कर्म, कामयसे वा मनः प्रसादयितुमचिरेण देव्याः, तदस्मदुपचार-
पूर्वकमद्यप्रभृति सर्वमुपकल्पय क्रियाकलापम् । अन्यथा केशो
भविष्यति तवैष सेवावेश:शः '
 
३४
 

 
इति वादिनस्तस्य वचनमनुवर्तमानो मेदिनीपतिर्विहस्य
किंचित्सोपहासम़वदत् -- 'सर्वमुपपन्नमभिहितम् । उपदिष्टमक्कि-
लिष्टया युक्त्या । प्रबोधिता क्यम् । यथा निदर्शित:तः सूक्ष्मदर्शिना,
तथैवैष सेवामार्ग:गः । परिग्रहजने संनिधौ सति, कोऽधिकारः प्रभू-
णामग्रपूजायाम् । महती मूढता, गाढमविवेकविलसितम्, अप्रति-
विधेया वैधेयतेयम्, यदस्माभिः सर्वसेव्यगुणसंपदुपेतं भवन्तमप-
हाय प्रमादादिदोषोपहतचित्तवृत्तिभिरियमप्ग्रत एव देवता सेवितु-
मुपक्रान्ता । कृतश्च पूजाविधेरकरणेन कियानप्यबहुमानः । अथ वा
जन्मनः प्रभृत्यकृतपरसेवानामत्र लवमात्रोऽपि नास्माकं दोषः ।

 
[commentary]
 
णम् । मात्रादानशब्दश्च सांप्रदायिको बल्यादिषु । फल्गुः व्यर्थः । ईप्ससि आप्त-
तुमिच्छसि । आवेशः अभिनिवेशः ।
 

 
इतीति । वैधेयः मूर्खः ।