This page has been fully proofread twice.

निरन्तरारूढविततव्रततिजालयमलतालशिखरनिषण्णमिव दृश्यमानम्, उल्बणास्थिप्ग्रन्थिना जानुयुगलेन क्षीणमांसेन च निकाममूरुकाण्डद्वयेन विश्राणितपरस्परगुणप्रकर्षम्, असृक्प्रवाहपाटलया वैतरणीसरित्सलिलवेणिकयेव पृथुलदीर्घया रोमलतया सीमन्तितकरालकुक्षिकुहरपातालम्, अचिरखण्डितं मन्त्रसाधकमुण्डं गलावलम्बितं बिभ्राणम्, कबलितपिशितचर्वणायासचञ्चलेन कूर्चकचकलापेन कबलितं प्रलम्बपृथुलं चिबुकमुद्वहन्तम्, शिखिकणारुणया तिर्यग्विसर्पिण्या फणामणिकिरणमालया जटालीकृतसरलभोगनालाभ्यामलघुना निष्पतन्तमोघेन घोणापुटश्वासमुभयतः पातुमवतीर्णाभ्यां कर्णाभरणविषधराभ्यां द्विधाप्यधःकृतोष्ठपृष्ठलोमलेखम्, मुहुरुदञ्चता मुहुर्न्यञ्चता मुहुः प्राञ्चता तिर्यगजगरदेहदीर्घपृथुलेन
जिह्वालताग्रेण ललाटचिबुकसृक्कप्रान्तगतमार्द्रार्द्रं मेदःकर्दममास्वादयन्तम्, अन्तर्ज्वलितपिङ्गलोग्रतारकेण करालपरिमण्डलाकृतिना नयनयुगलेन यमुनाप्रवाहमिव निदाघदिनकरप्रतिबिम्बगर्भोदरेणावर्तद्वयेनातिभीषणम्, आभोगिना ललाटस्थलेन सद्यःस्थापितमसृक्पङ्कपञ्चाङ्गुलं दधानम्, ऊर्ध्वस्थितेन स्थिरतडित्तन्तुसंतानस्थानकविडम्बिना कपिशभासुरेण केशभारेण भर्त्सयन्तम् उपरि जाज्वल्यमानज्वालाखण्डमुत्पातधूमदण्डम्, आयतनभित्तिसङ्गिना बलिप्रदीपप्रभाप्रकाशितेन केशनखदशनवर्जमात्मनो निर्विशेषच्छायेन प्रतिच्छायापुरुषेण पार्श्वचारिणा सानुचरमिव दृश्यमानम्,
 
[commentary]
 
व्रततिः लता । यमलतालौ तालवृक्षद्वयम् । तादृशजङ्घाद्वयविशिष्ट एतादृशतालयुगलस्थित इव भातीति तात्पर्यम् । सृक्क ओष्ठप्रान्तः । ओष्ठपृष्ठलोमलेखा श्मश्रुराजिः । पञ्चाङ्गुलं अङ्गुलिपञ्चकनिवेशः, यः प्रतिहस्तकपदेन व्यपदिश्यते । 'तत्पुरुषस्याङ्गुलेः --' इति समासान्तः । धूमदण्डः धूमकेतुः ।