This page has been fully proofread once and needs a second look.

तिलकम अरीसंग्रहः ।
 
दृश्यमा-
निरन्तरारूढविततव्रततिजालयमलतालाशलशिखरनिषण्णमिव
दृश्यमानम्, उल्बणास्थिप्रन्थिना जानुयुगलेन क्षीणमांसेन च निकाम-
मूरुकाण्डद्वयेन विश्राणितपरस्परगुणप्रकर्षम्, असृक्प्रवाहपाटलया
वैतरणीसरित्सलिलवेणिकयेव पृथुलदीर्घया रोमलतया सीमन्तितक-
रालकुक्षिकुहरपातालम्, अचिरखण्डितं मन्त्रसाधकमुण्डं गलाव-
लम्बितं बिभ्राणम्, कबलितपिशितचर्वणायासच ञ्चलेन कूर्चकचक-
लापेन कबलितं प्रलम्बपृथुलं चिबुकमुद्वहन्तम्, शिखिकणारुणया
तिर्यग्विसर्पिण्या फणामणिकिरणमालया जटालीकृतसरलभोगना-
लाभ्यामलघुना निष्पतन्तमोघेन घोणापुटश्वासमुभयतः पातुमवती-
र्णाभ्यां कर्णाभरणविषधराभ्यां द्विधाप्यधः कृतोष्ठपृष्ठलो
मलेखम्,
मुहुरुदच्यञ्चता मुहुर्न्यभ्यञ्चता मुहुः प्राध्यञ्चता तिर्यगजगर देहदीर्घपृथुलेन

जिह्वालतामेग्रेण ललाटचिबुकसृक्कप्रान्तगतमार्द्रार्द्रं मेदःकर्: कर्दममास्वा-
दयन्तम्, अन्तर्ज्वलितपिङ्गलोग्रतारकेण करालपरिमण्डलाकृतिना
नयनयुगलेन यमुनाप्रवाहमिव निदाघदिनकरप्रतिबिम्बगर्भोदरेणा-
वर्तद्वयेनातिभीषणम्, आभोगिना ललाटस्थलेन सद्य:यःस्थापितम-
सृक्पङ्कपभ्ञ्चाङ्गुलं दधानम्, ऊर्ध्वस्थितेन स्थिरतडित्तन्तुसंतानस्था-
नकविडम्बिना कपिशभासुरेण केशभारेण भर्त्सयन्तम् उपरि
जाज्वल्यमानज्वालाखण्डमुत्पातधूमदण्डम्, आयतनभित्तिसङ्गिना
बलिप्रदीपप्रभाप्रकाशितेन केशनखदशनवर्जमात्मनो निर्विशेषच्छा-
येन प्रतिच्छायापुरुषेण पार्श्वचारिणा सानुचरमिव दृश्यमानम्,

 
[commentary]
 
व्रततिः लता । यमलतालौ तालवृक्षद्वयम् / तादृशजाय जङ्घाद्वयविशिष्ट एतादृशताल-
युगलस्थित इ भातीति तात्पर्यम् । सृक्क ओष्ठप्रान्तः । ओष्ठपृष्ठलोमलेखा श्मश्रु-
राजिः । पञ्चाङ्गुलं अङ्गुलिपञ्चकनिवेशः, यः प्रतिहस्तकपदेन व्यपदिश्यते ।
'तत्पुरुषस्याङ्गुले:लेः --' इति समासान्तः । धूमदण्ड :डः धूमकेतुः ।
 
३२