This page has been fully proofread twice.

विरहदुःखदत्तोद्वेगा च प्रवर्तते यथाशक्ति कुशलावाप्तिसाधके कर्मणि । एवं च तस्या अप्युपकृतं भवति । संभवन्ति च भवार्णवे विविधकर्मवशवर्तिनां जन्तूनामनेकशो जन्मान्तरजातसंबन्धैर्बन्धुभिः सुहृद्भिरर्थैश्च नानाविधैः सार्धमबाधिताः पुनस्ते संबन्धाः । स्मरणानि चात्यन्तविस्मयकराणि पूर्वजातेः । अतो नायमालापो मोहप्रलाप इति मे समर्थनीयः । कदर्थनीयश्च न पुनरहं प्रार्थनाभङ्गदैन्यसंपादनेन" इत्युदीर्य कण्ठादवतार्य किंचिदवनतेक्षणो दक्षिणकरेण हारमुपनिन्ये । नरेन्द्रोऽपि, तेन चर्मचक्षुषामगोचरेण तस्य साक्षान्निजदिव्यरूपाविष्करणेन, तेन स्मितोद्भेदपूर्वेण वक्षसि रचितकोमलकराञ्जलिना प्रथमाभिभाषणेन, तेन सुरपतिप्रशंसाप्रकाशनपुरःसरेण विस्तरवता स्ववृत्तान्तकथनेन, तेन च दूरं परिहृत्य दिव्यतावलेपं स्पृहणीयेन प्रतिग्राहणाय भूयो भूयः कृतेन प्रणयप्रार्थनेन दूरमावर्जितमनाः, प्रकृतिनिःस्पृहोऽपि परोपचारेष्वतिस्पृहयालुरिव सत्वरमुपसृतः प्रसार्य करयुगलमग्रतस्तं जग्राह ॥
 
देवोऽप्यसौ अलक्षितगतिस्तस्मिन्नेव क्षणे झगित्यदर्शनमगमत् । तिरोभूते च तस्मिन्, उपजातविस्मयो नरपतिर्निरीक्ष्य चक्षुषा निश्चलेन तं हारम्, उत्तरीयाञ्चलैकदेशे बबन्ध । प्रविश्य च शक्रावतारायतनमध्यम्, आराध्य भगवन्तमतिचिरमादिदेवम्, आगत्य निजसदनम्, उपपाद्य भक्त्यतिशयेन श्रियः सायंतनीं सपर्याम्, अभिमुखीभूय तन्मुखे निहितनिश्चललोचनो निषसाद ।
निजगाद च -- 'भगवति, त्वच्चरणारविन्दसेवानुभावोऽयम्, यदस्मादृशामपि मनुष्यमात्राणामशेषत्रिभुवनमाननीया वैमानिकाः