This page has been fully proofread twice.

॥ श्रीः ॥
 
॥ तिलकमञ्जरीसंग्रहः ॥
 
प्राज्यप्रभाषः प्रभवो धर्मस्यास्तरजस्तमाः ।
ददतां निर्वृतात्मा न आद्योऽन्येऽपि मुदं जिनाः ॥ १ ॥
 
वन्द्यास्ते कवयः काव्यपरमार्थविशारदाः ।
विचारयन्ति ये दोषान्गुणांश्च गतमत्सराः ॥ २ ॥
 
शे षे से वा विशेषं ये न जानन्ति द्विजिह्वतः ।
यान्तो हीनकुलाः किं ते न लज्जन्ते मनीषिणाम् ॥ ३ ॥
 
[commentary]
 
प्राज्येति । ददतामित्येतत् 'दद दाने' इति भौवादिकाल्लोटि एकवचने, 'डुदाञ् दाने' इति जौहोत्यादिकाल्लोटि बहुवचने च निष्पद्यते । कमेण तस्यान्वयः । आद्यजिनपक्षे, निर्वृतात्मा, नः, इति च्छेदः । प्रभवः उत्पत्तिस्थानम् । निर्वृतात्मा सानन्दमनाः मुक्तात्मा वा । पक्षान्तरे, प्राज्यप्रभाः, वः, इति च्छेदः । प्रभुशव्दस्य बहुवचने प्रभव इति, अस्तरजःशब्दात्तमपि ततो बहुवचने अस्तरजस्तमा इति च भवति ।
 
शेष इति । हीनकुलाः ये । शे शकारे । षे षकारे । से वा सकारे वा । विशेष परस्परभेदम् । न जानन्ति, अश्वे अस्वं दोषे दोशं च प्रयुञ्जत इत्यर्थः, अनभिज्ञमूर्धन्या इति यावत् । द्वयोः जिह्वयोः समाहारः द्विजिह्वं तेन तस्माद्वा द्विजिह्वतः, पैशुनवृत्त्येत्यर्थः । 'आबन्तो वा' इत्युक्त्या क्लीबत्वम् । यान्तः सर्वत्र गच्छन्तः व्यवहरन्तः इत्यर्थः । ते मनीषिणां मनीषिणः प्रति । संबन्ध-