This page has been fully proofread once and needs a second look.

॥ श्रीः ॥
 

 
॥ तिलकमञ्जरीसंग्रहः ॥
 

 
प्राज्यप्रभाषः प्रभवो धर्मस्यास्तरजस्तमाः ।

ददतां निर्वृतात्मा न आग्रोद्योऽन्येऽपि मुदं जिनाः ॥ १ ॥
 

 
वन्द्यास्ते कवयः काव्यपरमार्थविशारदाः ।

विचारयन्ति ये दोषान्गुणांश्च गतमत्सराः ॥ २ ॥

 
शे षे से वा विशेषं ये न जानन्ति द्विजिह्वतः ।

यान्तो हीनकुलाः किं ते न लज्जन्ते मनीषिणाम् ॥ ३ ॥
 
.
 

 
प्राज्येति । ददतामित्येतत् 'दद दाने' इति भौत्रावादिकाल्लोटि एकव
चने, ' डुदाञ् दाने' इति जौहोत्यादिकाल्लोटि बहुवचने च निष्पद्यते । कमेण
तस्यान्वयः । आद्यजिनपक्षे, निर्वृतात्मा, नः, इति च्छेदः । प्रभवः उत्पत्तिस्था-
नम् । निर्वृतात्मा सानन्दमना:नाः मुक्तात्मा वा । पक्षान्तरे, प्राज्यप्रभाः, वः,

च्छेदः । प्रभुशव्दस्य बहुवचने प्रभव इति, अस्तरजःशब्दात्तमपि ततो बहुवचने
अस्तरजस्तमा इति च भवति ।
 
.
 

 
शेष इति । हीनकुलाः ये । शे शकारे । षे षकारे । से वा सकारे वा
विशेष परस्परभेदम् । न जानन्ति, अश्वे अस्वं दोषे दोशं च प्रयुञ्जत इत्यर्थः,
अनभिज्ञमूर्धन्या इति यावत् । द्वयोः जिह्वयांयोः समाहार:रः द्विजिह्वं तेन तस्माद्वा
द्विजिह्वतः, वैपैशुनबृवृत्त्येत्यर्थ:थः । 'आबन्तो वा' इत्युक्तथात्या क्लीबत्वम् । यान्तः
सर्वत्र गच्छन्तः व्यवहग्न्तरन्तः इत्यर्थः । ते मनीषिणां मनीषिणः प्रति । संबन्ध
 
:
 
-