2023-02-19 11:24:21 by ambuda-bot
This page has not been fully proofread.
॥ श्रीः ॥
॥ तिलकमञ्जरीसंग्रहः ॥
प्राज्यप्रभाषः प्रभवो धर्मस्यास्तरजस्तमाः ।
ददतां निर्वृतात्मा न आग्रोऽन्येऽपि मुदं जिनाः ॥ १ ॥
वन्द्यास्ते कवयः काव्यपरमार्थविशारदाः ।
विचारयन्ति ये दोषान्गुणांच गतमत्सराः ॥ २ ॥
शे षे सेवा विशेषं ये न जानन्ति द्विजितः ।
यान्तो हीनकुलाः किं ते न लज्जन्ते मनीषिणाम् ॥ ३ ॥
.
प्राज्येति । ददतामित्येतत् 'दद दाने' इति भौत्रादिकाल्लोटि एकव
चने, ' डुदाञ् दान ' इति जौहोत्यादिकाल्लोटि बहुवचने च निष्पद्यते। कमेण
तस्यान्वयः । आद्यजिनपक्षे, निर्वृतात्मा, नः इति च्छेदः । प्रभवः उत्पत्तिस्था-
नम् । निर्वृतात्मा सानन्दमना: मुक्तात्मा वा । पक्षान्तरे, प्राज्यप्रभाः, वः,
च्छेदः । प्रभुशव्दस्य बहुवचने प्रभव इति, अस्तरजःशब्दानमपि ततो बहुवचने
अस्तरजस्तमा इति च भवति ।
.
शेष इति । हीनकुलाः ये । शे शकारे । षे षकारे । से वा सकारे वा
विशेष परस्परभेदम् । न जानन्ति, अश्वे अस्वं दोषे दोशं च प्रयुञ्जत इत्यर्थः,
अनभिज्ञमूर्धन्या इति यावत् । द्वयोः जिह्वयां समाहार: द्विजिह्वं तेन तस्माद्वा
द्विजिह्वतः, वैशुनबृत्त्येत्यर्थ: । 'आबन्तो वा' इत्युक्तथा क्लीबत्वम् । यान्तः
सर्वत्र गच्छन्तः व्यवहग्न्त इत्यर्थः । ते मनीषिणां मनीषिणः प्रति। संबन्ध
: