This page has been fully proofread twice.

शयम् अतिस्वच्छः, गुणवन्तम् अतिशयोज्ज्वलगुणः प्राप्नोतु सदृशवस्तुसंयोगजां प्रीतिम् । अस्य हि परित्यक्तसुरलोकवासस्य दूरीभूतदुग्धसागरोदरस्थितेस्त्वद्वसतिरेव स्थानम् । न हि त्र्यम्बकजटाकलापमन्तरिक्षं वा विहाय, क्षीणोऽपि हरिणलक्ष्मा क्षितौ पदं बध्नाति । मयाप्यनन्ययोग्योपभोगां भव्यतामस्य भावयता, दिव्यदर्शनममोघमिति घोषणां जनस्य किंचिच्चरितार्थां चिकीर्षता क्षणमात्रपरिचितमात्मानमीषदनुस्मरणविषयतां नेतुभिलषता, प्रीतिप्रगुणितस्य चात्मनस्तरलतां तिरोधातुमक्षमेण अयमुपनीयते, न पुनरुपकाराय प्रीतये वा । सर्वस्वदानेनापि देहिनामुपकुर्वतः परेण प्रार्थितां पृथिवीमपि तृणगणनया परित्यजतः, किं तद्वस्तु ; यत्प्रदानेन प्रीतिरुपकारो वा भविष्यति भवतः । सर्वथा दत्तोऽयं मया । 'विपत्प्रतीकारासमर्थः क्षीणायुषोऽस्य भिषगिव कथं ऋक्थमाहरामि । अलंकारः क्षत्रियकुलस्य याचकद्विज इव कथं प्रतिग्रहमङ्गीकरोमि' इत्यनेकविकल्पविप्रलब्धमनसा त्वया मनस्विनां वरेण, त्रिदशनाथेऽपि भगवति कदाचिदकृतप्रणयभङ्गस्य मे न कार्यः प्रथमप्रार्थनाभङ्गः । ग्रहीतव्यो निर्विचारेण, यस्मादुपरोधभीरुत्वादगृह्यमाणोऽपि भवता दूरीभूत एवैष मे स्वर्गच्युतस्य । गृहीतस्तु कदाचिन्मनुष्यलोके लब्धजन्मनः पुनरानन्दयति मे दृष्टिम् । इष्टतमदर्शनं चैनम् अमरलोकाच्च्युता कालक्रमेण देव्यपि मे प्रियङ्गुसुन्दरी कदाचिदालोकयति । दर्शनाभ्यासजातपूर्वजातिस्मृतिश्च स्मरति रतिकराण्यसक्तं मया सहोपभुक्तानि स्वर्गवासक्रीडासुखानि ।
 
[commentary]
 
मुक्तामयः मौक्तिकनिर्मितः, रोगहीनश्च । त्रासः भयम्, मौक्तिकदोषश्च । गुणः सौशील्यादिः, रज्जुश्च । ऋक्थं धनम् । असक्तं अविलम्बेन ।