This page has been fully proofread twice.

तसाम् अतिदारुणे दशापाके, कथंचिदुपजातसंगमस्य सुरपतिप्रशंसाश्रवणदिवसादारभ्य प्रतिदिवसमभिलषितदर्शनप्राप्तेराकारदर्शनेनैव प्रशमितसकलहृदयोद्वेगतमसो महात्मनो न च सर्वात्मना प्रियमकर्तुमन्तःकरणमुत्सहते मदीयम् ; मन्दायते च त्रिभुवनातिशायि सत्त्वमलुब्धतां च तावकीं प्रागुपश्रुतां विचिन्त्य, प्रत्याख्यानलाघवमुत्प्रेक्षमाणम् । अतो न शक्नोमि सर्वथैवोपचारक्रियापराङ्मुखो भवितुम्, नापि यथाभिमतवस्तुप्रार्थनाविषयेणाभ्यर्थनेन कदर्थयितुम् । केवलमवलम्ब्य मध्यमं पन्थानमुपरचयामि तेऽञ्जलिम् । अनुगृहाणेमां मनःपरितोषाय मे, नृपचन्द्र चन्द्रातपाभिधानं प्रधानमखिलानामपि स्वर्गभूषणानामासत्तिमात्रेणापि कृतसकलदुरितापहारं हारम् । एष किल क्षीरोदेन परिणतामलकीफलस्थूलनिस्तलानि मुक्ताफलान्यादाय कौतुकेन स्वयं ग्रथितः ; कृतश्च स्वयंवरोत्सवानन्तरमसुरारिमन्दिरमाश्रयन्त्याः श्रियो मन्युगद्गदकण्ठेन कण्ठकाण्डमण्डनम् । उपनीतश्च देव्यापि कमलया जन्मनि कुमारजयन्तस्य ज्येष्ठजायेति पुलोमदुहितुः । तयापि कृत्वातिदीर्घकालमात्मनो मण्डनम्, अर्पितः सखीप्रेमहृतहृदयया मत्प्रियायाः प्रियङ्गुसुन्दर्याः कण्ठदेशे । अद्य तु क्वापि धर्म्ये कर्मणि नियुज्य ताम्, आगच्छता मया विरहविनोदार्थमारोप्य कण्ठे,
सुहृद्दर्शनोत्कण्ठितेनानीतः । तदेष संप्रति स्वभावधवलरुचिः कालच्छायाकबलितमरुच्येव मोक्तुकामो माम्, अवाप्य कथमपि पुण्यपरिणत्या प्राङ्मया संयोजितं त्वां मुक्तामयवपुषम् अशेषतो मुक्तामयः, त्रासविरहितम् अपेतनात्रासः, स्वच्छा-
 
[commentary]
 
निस्तलानि वर्तुलानि । कालच्छाया कृष्णा कान्तिः, यमच्छाया च ।