This page has been fully proofread twice.

नश्रवणदुष्टहाकष्टशब्दा दृष्टा । मन्दिरमपि तदीयमप्रवृत्तोत्सवम्, धृतानुचितवेषनिर्व्यापारनिःशेषकलत्रम्, अप्रमत्तविबुधयोधशतसंरक्ष्यमाणगोपुरप्राकारम्, उद्विग्नसकलपरिजनं दृष्टम् ॥
 
इदं चारिष्टमतिकष्टमप्रतिविधेयं विधिवशात्तत्रोपजातम्, तस्य तत्कलत्रस्य वा प्रधानस्य अचिरकालभाविनं विनाशमवश्यतया निवेदयति । न हि येषु केषुचिदनर्थोपनिपातेषु, कदाचिदपि दिव्यानामास्पदेषु संपद्यन्ते ईदृशाः पदार्थानां प्रकृतिविपर्ययाः, तत्संनिवासिनां च विबुधलोकानामन्तरत्यन्तशोकातङ्कशंसिनो हृदयायासाः । तेन च मया तत्र गत्वा द्रष्टव्योऽसौ कदाचिदप्यदृष्टदीर्घमद्विरहदुःखः सखा । सुखयितव्यः सर्वकालमभिलषितमद्दर्शनो निजदर्शनेन । शमयितव्या दिव्यलोकच्यवनसुलभा सर्वभावानां विनश्वरस्वभावतावेदनेन हृदयेऽस्य दाहकारिण्यरतिवेदना । देयो दिव्यशक्त्यनुरोधेन सुगतिसाधनेषु धर्मकार्येषु सविशेषमुपदेशः ।
ततस्तेन सह पूर्वानुभूतसुखदुःखवृत्तान्तकथाव्यतिकरेण नीत्वा विभावरीमेताम्, विभातकाले कथमपि प्रार्थितपुनर्दर्शनेन पुनरपि प्रतीपं निवर्तितव्यम् । कर्तव्यं च किमपि कालोचितमकृतकालक्षेपेण ख्यातेः सुखस्य चामुष्मिकस्य साधकं कुशलानुष्ठानम् । यतो ममापि निष्ठितप्रायमायुः । अल्पावशेषा त्रिदशलोकस्थितिः । उपस्थितो दीर्घकालप्ररूढगाढप्रणयैर्नाकिभिः साकमात्यन्तिको विरहः । क्रोडीकृतं मनुष्यलोकावतारस्मरणपीडया निबिडमन्तःकरणम् । ईदृशे च सर्वतः समुपस्थितातिदुर्वारव्यसनजाते उपजनितसंसारसुखवैमुख्ये विवेकिनाम् उदीरितपरोपकारबुद्धौ उदारचे-
 
[commentary]
 
इदमिति । अरिष्टं अशुभम् । निष्ठितप्रायं भूयसा गतम् ।