This page has been fully proofread once and needs a second look.

तिलकमञ्जरीसंग्रहः ।
 
नश्रवणदुष्टहाकष्टशब्दा दृष्टा मन्दिरमपि तदीयमप्रवृत्तोत्सवम्,
घृ
धृतानुचितवेषनिर्व्यापारनि:निःशेषकलत्रम्, अप्रमत्तविबुधयोधशतसं-
रक्ष्यमाणगोपुरप्राकारम्, उद्विग्सकलपरिजनं दृष्टम् ॥
 

 
इदं चारिष्टमतिकष्ट मप्रतिविधेयं विधिवशात्तत्रोपजातमंम्, तस्य
तत्कलत्रस्य वा प्रधानस्य अचिरकालभाविनं विनाशमवश्यतया
 

 
निवेदयति । न हि येषु केषुचिदनर्थोपनिपातेषु, कदाचिदपि दिव्या
नामास्पदेषु संपद्यन्ते ईदृशा:शाः पदार्थानां प्रकृतिविपर्ययाः, तत्संनि-
वासिनां च विबुधलोकानामन्तरत्यन्तशोकातङ्कशंसिनो हृदया-
यासाः । तेन च मया तत्र गत्वा द्रष्टव्योऽसौ कदाचिदव्प्यदृष्टदीर्घ-
मद्विरहदुःखः सखा । सुखयितव्यः सर्वकालमभिलषितमद्दर्शनो
निजदर्शनेन । शमयितव्या दिव्यलोकच्यवनसुलभा सर्वभावानां
विनश्वरस्वभावतावेदनेन हृदयेऽस्य दाहकारिण्यरतिवेदना । देयो
दिव्यशक्त्यनुरोधेन सुगतिसाधनेषु धर्मकार्येषु सविशेषमुपदेशः ।

ततस्तेन सह पूर्वानुभूतसुखदुःखवृत्तान्तकथाव्यतिकरेण नीत्वा
विभावरीमेताम्, विभातकाले कथमपि प्रार्थितपुनर्दर्शनेन पुनरपि
प्रतीपं निवर्तितव्यम् । कर्तव्यं च किमपि कालोचितमकृतकाल-
क्षेपेण ख्याते:तेः सुखस्य चामुष्मिकस्य साधकं कुशलानुष्ठानम् ।
यतो ममापि निष्ठितप्रायमायुः । अल्पावशेषा वित्रिदशलोकस्थितिः ।
उपस्थितो दीर्घकालप्ररूढगाढप्रणयैर्नाकिभिः साकमात्यन्तिको वि
रहः । क्रोडीकृतं मनुष्य लोकावतारस्मरणपीडया निबिडमन्तःकर-
णम् । ईदृशे च सर्वतः समुपस्थितातिदुर्वारव्यसनजाते उपजनि-
तसंसार सुखवैमुख्ये विवेकिनाम् उदीरितपरोपकारबुद्धौ उदारचे-

 
[commentary]
 
मिति । अरिष्टं अशुभम् । निष्ठितप्रायं भूयसा गतम् ।
 
.