This page has been fully proofread twice.

प्रकृतिमापन्नेनेव चक्षुषा सुचिरम्, उपजातप्रत्यभिज्ञानलव इव सत्वरोपसंहृतगतिः, आचरणयुगलादुत्तमाङ्गं यावदालोकितवान् ॥
 
आनीतकरसंपुटश्च हेमाद्रितट इव पृथुश्रीवृक्षलाञ्छिते वक्षसि, स्तोकमुपदर्शितस्मितः प्रस्तुतपरीहास इव सलिलनिर्भराम्भोधरनिनादगम्भीरेण स्वरेण मधुरमब्रवीत् -- "नरेन्द्र, सर्वदा शरीरसंनिहितैर्निवेदितोऽसि चक्रवर्तिलक्षणैः । स खलु भवान्मध्यमलोकपालो राजा मेघवाहनः, योऽस्माभिः पुरा दिव्यसदसि देवस्य पाकशासनस्य मर्त्यलोकवार्तानिवेदनाधिकारयुक्तैः प्रधाननाकिभिः, एवं जिगीषुः, एवं शूरः, एवं त्यागशीलः, एवं धार्मिक इति बहुप्रकारमङ्कुरितपुलकपक्ष्मलकपोलैरवनिपालकथाप्रक्रमे सुचिरमुपवर्ण्यमानः श्रुतोऽसि । सर्वथा नः कृतार्थं चक्षुरुपजातम् । फलितं च सद्यो देवतादर्शनसमुत्थं पुण्यजातमतर्कितोपनतेनामुना त्वदवलोकनेन । गच्छामि सांप्रतम् । अनुजानीहि माम् । जानीहि च
मदीयमपि लेशतो वृत्तान्तम् । अहं हि सौधर्मसुरलोकसद्मा ज्वलनप्रभाभिधानो वैमानिकः । संप्रत्येव नाकतः प्रस्थितो गच्छन्पुरःस्थितेन कियतापि परिजनेनानुगम्यमानो गगनपथेन, पथि विलोक्य लोकान्तरे देवतायतनमिदम्, इदं मनस्यकरवम् -- 'इन्त, स एष भगवानशेषजगन्नाभिः, नाभिकुलकरकुलालंकारः, द्रष्टा कालत्रितयवर्तिनां भावानाम्, उपदेष्टा चिरप्रणष्टस्य धर्मतत्त्वस्य, सर्वसत्त्वनिर्निमित्तबन्धुः, सेतुबन्धः संसारसिन्धोः, ऋषभनामा जिनवृषः ; यस्य पुरा स्वामिना शक्रेण स्वयमनुष्ठितः प्रतिष्ठाविधिः ।'
 
[commentary]
 
आनीतेति । श्रीवृक्षः वक्षसि स्थित आवर्तविशेषः, पक्षे अश्वत्थवृक्षः बिल्ववृक्षो वा । नाभिः प्रधानभूतः । नाभिकुलकरः नाभेयः ।