2024-01-20 07:19:20 by Bharadwajraki
 
This page has been fully proofread once and needs a second look.
  
  
  
  तिलकम अरीसंग्रहः ।
  
  
  
   
  
  
  
  प्रकृतिमापन्नेनेव चक्षुषा सुचिरम्, उपजातप्रत्यभिज्ञानलव इव
  
  
  
  सत्ब सत्वरोपसंहृतगतिः, आचरणयुगलादुत्तमाङ्गं यावदालोकितवान् ॥
  
  
  
   
  
  
  
  २५
  
  
  
   
  
  
  
  -
  
  
  
   
  
  
  
  
  
  
  
   
  
  
  
  आनीतकरसंपुटश्च हेमाद्रितट इव पृथुश्रीवृक्षलाञ्छिते व
  
  
  
  क्षसि, स्तोकमुपदर्शितस्मित:तः प्रस्तुतपरीहास इव सलिलनिर्भराम्भो-
  
  
  
  धरनिनादगम्भीरेण स्वरेण मधुरमब्रवीत् –-- "नरेन्द्र, सर्वदा शरी-
  
  
  
  -
  
  
  
  रसंनिहितैर्निवेदितोऽसि चक्रवर्तिलक्षणैः । स खलु भवान्मध्यम-
  
  
  
  लोकपालो राजा मेघवाहन:नः, योऽस्माभिः पुरा दिव्यसदसि देवस्य
  
  
  
   पाकशासनस्य मर्त्यलोकवार्ता निवेदनाधिकारयुक्तैः प्रधाननाकिभिः,
  
  
  
   एवं जिगीषुः, एवं शूरः, एवं त्यागशीलः, एवं धार्मिक इति बहु-
  
  
  
  प्रकारमङ्कुरितपुलकपक्ष्मलकपोलैरव निपालकथाप्रक्रमे सुचिरमुपव-
  
  
  
  र्ण्यमानः श्रुतोऽसि । सर्वथा नः कृतार्थथं चक्षुरुपजातम् । फलितं
  
  
  
   च सद्यो देवतादर्शनसमुत्थं पुण्यजातमतर्कितोपनतेनामुना त्वदवलो-
  
  
  
  कनेन । रागच्छामि सांप्रतम् । अनुजानीहि माम् । जानीहि च
  
  
  
  
  
  
  
  मदीयमपि लेशतो वृत्तान्तम् । अहं हि सौधर्मसुरलोकसद्मा ज्वलन-
  
  
  
  प्रभाभिधानो वैमानिककः । संप्रत्येव नाकत:तः प्रस्थितो गच्छन्पुर:-
  
  
  
  रःस्थितेन कियतापि परिजनेनानुगम्यमानो गगनपथेन, पथि विलोक्य
  
  
  
   लोकान्तरे देवतायतनमिदम्, इदं मनस्यकरवम् -- 'इन्त, स एष
  
  
  
   भगवानशेषजगन्नाभिः, नाभिकुलकरकुलालंकारः, द्रष्टा काल-
  
  
  
  त्रितयवर्तिनां भावानाम्, उपदेष्टा चिरप्रणष्टस्य धर्मतत्त्वस, सर्व-
  
  
  
  स्य, सर्वसत्त्वनिर्निमित्तबन्धुः, सेतुबन्ध:धः संसारसिन्धो:धोः, ऋषभनामा जिन-
  
  
  
  वृष:षः ; यस्य पुरा स्वामिना शक्रेण स्वयमनुष्ठितः प्रतिष्ठाविधिः । '
  
  
  
   
  
  
  
  ,
  
  
  
   
  
  
  
  "
  
  
  
   
  
  
  
  
  
  
  
   
  
  
  
  [commentary]
  
  
  
   
  
  
  
  आनीतेति । श्रीवृक्षः वक्षसि स्थित आवर्तविशेषः, पक्षे अश्वत्थवृक्षः
  
  
  
   बिल्ववृक्षो वा । नाभिः प्रधानभूतः । नाभिकुलकरः नाभेयः ।
  
  
  
  'T 4