This page has not been fully proofread.

तिलकम अरीसंग्रहः ।
 
प्रकृतिमापन्नेनेव चक्षुषा सुचिरम् उपजातप्रत्यभिज्ञानलव इव
सत्बरोपसंहृतगतिः, आचरणयुगलादुत्तमाङ्गं यावदालोकितवान् ॥
 
२५
 
-
 
आनीतकरसंपुटश्च हेमाद्रितट इव पृथुश्रीवृक्षलाञ्छिते व
क्षसि, स्तोकमुपदर्शितस्मित: प्रस्तुतपरीहास इव सलिलनिर्भराम्भो-
धरनिनादगम्भीरेण स्वरेण मधुरमब्रवीत् – "नरेन्द्र, सर्वदा शरी-
-
रसंनिहितैर्निवेदितोऽसि चक्रवर्तिलक्षणैः । स खलु भवान्मध्यम-
लोकपालो राजा मेघवाहन:, योऽस्माभिः पुरा दिव्यसदसि देवस्य
पाकशासनस्य मर्त्यलोकवार्ता निवेदनाधिकारयुक्तैः प्रधाननाकिभिः,
एवं जिगीषुः, एवं शूरः, एवं त्यागशीलः, एवं धार्मिक इति बहु-
प्रकारमङ्कुरितपुलकपक्ष्मलकपोलैरव निपालकथाप्रक्रमे सुचिरमुपव-
र्ण्यमानः श्रुतोऽसि । सर्वथा नः कृतार्थ चक्षुरुपजातम् । फलितं
च सद्यो देवतादर्शनसमुत्थं पुण्यजातमतर्कितोपनतेनामुना त्वदवलो-
कनेन । राच्छामि सांप्रतम् । अनुजानीहि माम् । जानीहि च
मदीयमपि लेशतो वृत्तान्तम् । अहं हि सौधर्मसुरलोकसद्मा ज्वलन-
प्रभाभिधानो वैमानिक । संप्रत्येव नाकत: प्रस्थितो गच्छन्पुर:-
स्थितेन कियतापि परिजनेनानुगम्यमानो गगनपथेन, पथि विलोक्य
लोकान्तरे देवतायतनमिदम् इदं मनस्यकरवम्- 'इन्त, स एष
भगवानशेषजगन्नाभिः, नाभिकुलकरकुलालंकारः, द्रष्टा काल-
त्रितयवर्तिनां भावानाम् उपदेष्टा चिरप्रणष्टस्य धर्मतत्त्वस, सर्व-
सत्त्वनिर्निमित्तबन्धुः, सेतुबन्ध: संसारसिन्धो:, ऋषभनामा जिन-
वृष: ; यस्य पुरा स्वामिना शक्रेण स्वयमनुष्ठितः प्रतिष्ठाविधिः । '
 
,
 
"
 
आनीतेति । श्रीवृक्षः वक्षसि स्थित आवर्तविशेषः, पक्षे अश्वत्थवृक्षः
बिल्ववृक्षो वा । नाभिः प्रधानभूतः । नाभिकुलकरः नाभेयः ।
'T 4