2023-02-19 11:24:24 by ambuda-bot
This page has not been fully proofread.
२४
तिलकमञ्जरीसंग्रहः ।
क्ष्मान्तरालप्रविष्टपटुविलेपनामोद मुषितनिद्रैर्निर्हयचरणप्रणोददलित.
दलपुटैरपहायापहाय कमलगर्भशयनानि धावद्भिरुया नदीर्घिकाम-
धुकरकुलै: कृततुमुलकोलाहलम, किंचिदारूढम्ला निना पारिजा-
तकुसुमशेखरेण विराजमानम जवागमनखेदादनवरतमुद्वमन्तं श्रा-
सपवनान, एकं वैमानिकमपश्यत् ॥
-
आलोकनमात्रेणैव तं प्रति उपजातदिव्यतानिश्चयस्य चक्षुर्निमेषा-
दिलिङ्गदर्शनोन्नीतस्वर्गच्यवनसमयस्य रूपसंपत्रिरूपणादात्मनि श्ल-
थीभूतचारुताभिमानग्रन्थे: पार्थिवस्याभून्मनसि— 'अहो प्रभावः
सुरलोकभूमीनाम; यत्र खलु संभूतानि पुण्यभागिनां शरीराण्य-
प्येवंविधानि भवन्ति; यानि चरमास्वपि दशासु, तावदास्तामुपस-
र्पितुम्, द्रष्टुमप्यनलमनलमिव वैद्युतं पुमांस: । अस्य वपुषि प्रका-
मसौम्येऽपि स कोऽपि स्वभावभास्वरः स्फुरति प्रतापः, यस्मिन्नसौ
प्रकृतिप्रगल्भापि भीतेव मे न चिरमाबध्नाति लक्ष्यमीक्षणद्वयी ।
सर्वथा कृतार्थोऽहम, यस्य मे मर्त्यभावेऽपि प्रकटितदिव्यवपुषा
दर्शनमनेन दत्तम ।' इति विचिन्त्य, मुक्त्वा च सफलकं प्रभुता-
भिमानेन सार्धं कृपाणम, आबद्धाञ्जलिः स्तोकमुपेत्य स्वागत-
मकरोत् ॥
सोऽपि तथा समुपसृत्य तं पुरस्तादवस्थितम् अतिस्तिमित-
प्रगल्भस्निग्धदृष्टिप्रकटितान्त: प्रीतिम् आबद्धकरसंपुटम् अतिशय-
स्पृहणीयदेहावयवदर्शनानन्दनिस्पन्दविकसितेन पुनरपि प्राक्तनीं
"
आलोकनेति । उपसर्पितुमिति चिन्त्यम् । उपस्त्रनुमिति भाव्यम् ।
स्वार्थणिजन्तो वा । फलक खेटकः ।