This page has been fully proofread twice.

लिभि:भिः पुनरागमनप्रार्थनापुरःसरमानतायास्त्रिदशलोकश्रियो वियोगाश्रुभिरिव सकज्जलैः कल्माषितेन चरणद्वयेन द्योतमानम्, अग्रतोऽग्रतः श्लक्ष्णपरिमण्डलजङ्घाकाण्डेन मूले मूले स्थूलेन भ्राजमानम् ऊरुस्तम्भयुगलेन, निवसितातिसूक्ष्मदेवार्हवसनम्, उन्निद्रकाञ्चनारविन्दचारुणा आवर्तिना नाभिमण्डलेन अलंकृतप्रतनुमध्यभागम्, वामेन सविलासभुजगतागतद्राघितया तत्क्षणोदितेन्दुलेखाकारया नखमणिप्रभया विराजितेन दक्षिणेन चादिदेवप्रणामसमयस्त्रस्तस्य कुसुमापीडस्य निबिडनाय तिर्यगुन्नमितेन पाणिना बन्धुजीवकचापधारिणः प्रारब्धपृष्ठतूणीरशराकर्षणस्य कुसुमधनुषः स्थानकमङ्गीकुर्वाणम्, आमुक्तमेघमुक्तास्फारमुक्ताफलहारम्, अभिनवजपाकुसुमकान्तिहारिणो हारनायकमणेरुन्मुखीभिर्मयूखलेखाभिः कपिशितोग्रशौचसिचयोत्तरासङ्गम्, अन्तकालनिद्रोदयादीषन्निमिषितस्य दूरविस्तारिणो नयनयुगलस्योन्मेषलीलासु विसर्पता धवलेन प्रभाप्रवाहेण क्षीरमिवोद्गिरन्तम्, उल्लसिताधरप्रभासान्द्रविद्रुमवनम् उद्धूतधवलदीर्घलोचनतरङ्गम् उत्सङ्गितकपोलमुक्ताशुक्तिकान्तम् आक्रान्तोज्ज्वलललाटतटम् आविष्कृतभ्रूलताशैवलवल्लरीकम्
आपीतामृतदर्शनदुराशया क्षीरोदसलिलमिव सकलमावासितम् उपहसितशरच्चन्द्रिकाप्रकाशम् आस्यलावण्यमुद्वहन्तम्, अनिलकृतसू-
 
[commentary]
 
मसृणं वा । परिमण्डलं वर्तुलम् । द्राघिता दीर्घीकृता । गतागताभ्यां वक्रतया स्वयं रक्तिम्ना च नखमणिप्रभायां बन्धुजीवकचापत्वोत्प्रेक्षा । एतदर्थमेव तत्क्षणोदितत्वं उपमानभूतायामिन्दुलेखायां विशेषणम् । पृष्ठतूणीरः पृष्ठे लम्बितः इषुधिः । स्थानकं स्थितिः, सादृश्यं वा । मेघमुक्ताः करकाः । उग्रशौचः अतिशुद्धः । उत्तरासङ्गः उपरिवस्त्रम् । उत्सङ्गिता मध्ये कृता । अधग्प्रभादिषु विद्रुमवनस्त्वादिरूपणं आस्यलावण्ये क्षीरोदसलिलत्वोत्प्रेक्षोपयोगि ।