This page has been fully proofread once and needs a second look.

तिलकमञ्जरीसंग्रहः ।
 
२३
 
लिभि: पुनरागमनप्रार्थनापुरःसरमानताया स्त्रिदशलोकश्रियो वियो-
गाश्रुभिरिव सकज्जलैः कल्माषितेन चरणद्वयेन द्योतमानम्,
अग्रतोऽग्रतः श्लक्ष्णपरिमण्डलजङ्घाकाण्डेन मूले मूले स्थूलेन
भ्राजमानम् ऊरुस्तम्भयुगलेन, निवसितातिसूक्ष्मदेवार्हवसनम्,
उन्निद्रकाञ्चनारविन्दचारुणा आवर्तिना नाभिमण्डलेन अलंकृत-
प्रतनुमध्यभागम्, वामेन सविलास भुजगतागतद्राघितया तत्क्षणो-
दितेन्दुलेखाकारया नखमणिप्रभया विराजितेन दक्षिणेन चादिदेव-
प्रणामसमयस्त्रस्तम्स्य कुसुमापीडस्य निविबिडनाय तिर्यगुन्नमितेन पा-
णिना बन्धुजीवकचापधारिणः प्रारब्धपृष्ठतूणीरशराकर्षणस्य कुसु-
मधनुष:षः स्थानकमङ्गीकुर्वाणम्, आमुक्तमेघमुक्तास्फारमुक्ताफलहारम्,
अभिनवजपाकुसुमकान्तिहारिणो हारनायकमणेरुन्मुखीभिर्मयूखले
खाभिः कपिशितोप्ग्रशौचसिचयोत्तरासङ्गम्, अन्तकालनिद्रोदयादी -
षन्निमिषितस्य दूरविस्तारिणो नयनयुगलस्योन्मेषलीलासु विसर्पता
धवलेन प्रभाप्रवाहेण क्षीरमिवोद्गिरन्तम्, उल्लसिताधरप्रभासान्द्रवि-
द्रुमवनम् उद्धृधूतधवलदीर्घलोचनतरङ्गम् उत्सङ्गितकपोलमुक्ताशुक्ति-
कान्तम् आक्रान्तोज्ज्वलललाटतटम् आविष्कृतभ्रूलता शैवलवल्लरीकम्

आपीतामृतदर्शनदुराशया क्षीरोदसलिलमिव सकलमावासितम् उप-
हसितशरच्चन्द्रिका प्रकाशम् आस्यलावण्यमुद्वहन्तम्, अनिलकृतसू-

 
[commentary]
 
मसृणं वा । परिमण्डलं वर्तुलम् । द्राघिता दीर्घीकृता । गतागताभ्यां वक्रतया
स्वयं रक्तिम्ना च नखमणिप्रभायां बन्धुजीवकचापत्वोत्प्रेक्षा । एतदर्थमेव तत्क्ष
णोदितत्वं उपमानभूताया।ममिन्दुलेखायां विशेषणम् । पृष्ठतूणीर:रः पृष्ठे लम्बित:
तः इषुधिः । स्थानकं स्थितिः, सादृश्यं वा । मेघमुक्ताः करकाः । उप्ग्रशौचः अति.
शुद्धः । उत्तरासङ्गः उपरिवस्त्रम् । उत्सङ्गिता मध्ये कृता । अधग्प्रभादिषु विद्रुम-
वनस्वादिरूपणं आस्यलावण्ये क्षीरोदसलिलत्वोत्प्रेक्षोपयोगि ।