This page has not been fully proofread.

तिलकमञ्जरीसंग्रहः ।
 
२३
 
लिभि: पुनरागमनप्रार्थनापुरःसरमानताया स्त्रिदशलोकश्रियो वियो-
गाश्रुभिरिव सकज्जलैः कल्माषितेन चरणद्वयेन द्योतमानम्,
अग्रतोऽग्रतः लक्ष्णपरिमण्डलजङ्घाकाण्डेन मूले मूले स्थूलेन
भ्राजमानम ऊरुस्तम्भयुगलेन, निवसितातिसूक्ष्मदेवार्हवसनम,
उन्निद्रकाञ्चनारविन्दचारुणा आवर्तिना नाभिमण्डलेन अलंकृत-
प्रतनुमध्यभागम, वामेन सविलास भुजगतागतद्राघितया तत्क्षणो-
दितेन्दुलेखाकारया नखमणिप्रभया विराजितेन दक्षिणेन चादिदेव-
प्रणामसमयस्त्रस्तम्य कुसुमापीडस्य निविडनाय तिर्यगुन्नमितेन पा-
णिना बन्धुजीवकचापधारिणः प्रारब्धपृष्ठतूणीरशराकर्षणस्य कुसु-
मधनुष: स्थानकमङ्गीकुर्वाणम, आमुक्तमेघमुक्तास्फारमुक्ताफलहारम्,
अभिनवजपाकुसुमकान्तिहारिणो हारनायकमणेरुन्मुखीभिर्मयूखले
खाभिः कपिशितोप्रशौचसिचयोत्तरासङ्गम्, अन्तकालनिद्रोदयादी -
षन्निमिषितस्य दूरविस्तारिणो नयनयुगलस्योन्मेषलीलासु विसर्पता
धवलेन प्रभाप्रवाहेण क्षीरमिवोद्गिरन्तम्, उल्लसिताधरप्रभासान्द्रवि-
द्रुमवनम् उद्धृतधवलदीर्घलोचनतरङ्गम् उत्सङ्गितकपोलमुक्ताशुक्ति-
कान्तम आक्रान्तोज्ज्वलललाटतटम आविष्कृतभ्रूलता शैवलवल्लरीकम्
आपीतामृतदर्शनदुराशया क्षीरोदसलिलमिव सकलमावासितम उप-
हसितशरच्चन्द्रिका प्रकाशम् आस्यलावण्यमुद्वहन्तम्, अनिलकृतसू-
मसृणं वा । परिमण्डलं वर्तुलम् । द्राघिता दीर्घीकृता । गतागताभ्यां वकतया
स्वयं रक्तिम्ना च नखमणिप्रभायां बन्धुजीवकचापत्वोत्प्रेक्षा । एतदर्थमेव तत्क्ष
णोदितत्वं उपमानभूताया।मन्दुलेखायां विशेषणम् । पृष्ठतूणीर: पृष्ठे लम्बित:
इषुधिः । स्थानकं स्थितिः, सादृश्यं वा । मेघमुक्ताः करकाः । उप्रशौचः अति.
शुद्धः । उत्तरासङ्गः उपरिवस्त्रम् । उत्सङ्गिता मध्ये कृता । अधग्प्रभादिषु विद्रुम-
वनस्वादिरूपणं आस्यलावण्ये क्षीरोदसलिलत्वोत्प्रेक्षोपयोगि ।