This page has been fully proofread twice.

यानुज्ञातदर्शनेन सर्वग्रन्थार्थवेदिना विद्वज्जनेन सार्धं तैस्तैः कथालापैस्तस्थौ । उपस्थिते च प्रदोषसमये तेनैव विधिना श्रियः पूजोपचारं चक्रे । अन्यदिवसेष्वप्येतदेवान्वतिष्ठत । एवं च तस्योपरतराज्यचिन्ताभारस्य विरचिताभ्यर्णपर्णशालाकृतस्थितेस्त्रिकालस्नायिनः परिमितफलाहारपरिपालितशरीरस्य कुशतल्पशायिनो मुनिसमुपदिष्टेन विधिना व्रतमपत्यसंततिनिबन्धनमनतिचारं पालयतो गृहीतब्रह्मचर्यस्य दिवसाः कतिचिदतिजग्मुः ॥
 
एकदा तु विहितमन्त्रदेवतापूर्वसेवः स राजा, पर्वदिवसे विशेषेण निर्वर्त्य देव्याः श्रियः सायंतनीमायतनपूजाम्, अनुपलक्षितः परिचारकगणेन, नगरबाह्याराममण्डनमादितीर्थतया पृथिव्यां प्रथितमतितुङ्गशिखरतोरणप्राकारं शक्रावतारं नाम सिद्धायतनमगमत् ॥
 
प्रविशन्नेव च तस्य द्वारदेशे झटिति दत्तदर्शनम्, अखिलविष्टपत्रयाधिपतिना भगवता स्वयं शक्रेण साकेतपुरनिवेशकाल एव कृतप्रतिष्ठस्य भगवतो युगादिजिनस्य कृत्वा प्रणाममभिमुखमापतन्तम्, अल्पावशेषदेवायुषम्, उल्लिखितशातकुम्भस्तम्भावदातदेहम्, उचितप्रमाणशालिनाम् अतिभास्वरतया तडिद्दण्डैरिव निर्मितानाम् अङ्गानाम् अनलस्फुलिङ्गपिङ्गलेन गलता समन्ततः प्रभाजालेन ज्वलदनेकदीपिकाचक्रवालमिव मण्डपान्तरालं कुर्वाणम्, अन्तरिक्षगतमप्यतिबहलतया चरणतलप्रभायाः स्पृष्टभूतलमिवोपलक्ष्यमाणम्, गत्युत्कम्पगलितवैकक्षकस्रग्दामरेणुनिश्चलनिलीनैर-
 
[commentary]
 
प्रविशन्निति । वैकक्षकस्रक् तिर्यग्धारिता माला । श्लक्षणं मृदुलं