This page has not been fully proofread.

तिलकमञ्जरीसंग्रहः ।
 

 
यानुज्ञातदर्शनेन सर्वग्रन्थार्थवदिना विद्वज्जनेन सार्ध तैस्तै: कथा-
लापैस्तस्थौ । उपस्थिते च प्रदोषसमये तेनैव विधिना श्रिय: पूजो-
पचारं चक्रे । अन्यदिवसेष्वप्येतदेवान्वतिष्ठत । एवं च तस्योपरत-
राज्यचिन्ताभारस्य विरचिताभ्यर्णपर्णशालाकृतस्थितेस्त्रिकालस्ना-
यिन: परिमितफलाहारपरिपालितशरीरस्य कुशतल्पशायिनो मुनि-
समुपदिष्टेन विधिना व्रतमपत्य संततिनिबन्धनमनतिचारं पालयतो
गृहीतब्रह्मचर्या दिवसा: कतिचिदतिजग्मुः ॥
 
२२
 
एकदा तु विहितमन्त्रदेवतापूर्वसेव: स राजा, पर्वदिवसे
विशेषेण निर्वर्त्य देव्याः श्रियः सायंतनीमायतनपूजाम अनुपल-
क्षितः परिचारकगणेन, नगरबाह्याराममण्डनमादितीर्थतया पृथि-
व्यां प्रथितमतितुङ्गशिखरतोरणप्राकारं शक्रावतारं नाम सिद्धाय-
तनमगमत ॥
 
प्रविशन्नेव च तस्य द्वारदेशे झटिति दत्तदर्शनम, अखिल-
विष्टपत्रयाधिपतिना भगवता स्वयं शक्रेण साकेतपुरनिवेशकाल
एव कृतप्रतिष्ठस्य भगवतो युगादिजिनस्य कृत्वा प्रणाममभिमुख-
मापतन्तम, अल्पावशेषदेवायुषम्, उल्लिखितशातकुम्भस्तम्भावदात-
देहम उचितप्रमाणशालिनाम अतिभास्वरतया तडिद्दण्डैरिव निर्मि-
तानाम अङ्गानाम् अनलस्फुलिङ्ग पिङ्गलेन गलता समन्ततः प्रभा-
जालेन ज्वलदनेकदीपिकाचक्रवालमिव मण्डपान्तरालं कुर्वाणम,
अन्तरिक्षगतमप्यतिबहलतया चरणतलप्रभायाः स्पृष्टभूतलमिवो-
पलक्ष्यमाणम् गत्युत्कम्पगलितवैकक्षकस्रग्दामरेणुनिश्चलनिलीनैर-
प्रविशनिति । वैकक्षकसक तिर्यग्धारिता माला लक्षण मृदुलं
 

 
"
 
9