This page has been fully proofread twice.

अन्तरितदर्शने च तस्मिन्रणरणकदूयमानः शून्य इव पार्थिवः स्थित्वा मुहूर्तं हर्म्यशिखरावततार । निर्वर्तितमाध्याह्निकविधिश्च तत्कालकृतसंनिधीनां गुरूणां बान्धवानां बुद्धिसचिवानां च यथावृत्तं सर्वमेव मुनिवृत्तान्तमाख्यत् ; देवताराधानविषये चापृच्छत् । उच्छिद्यमानभरतवंशदर्शननित्योद्विग्रैनैश्च तैरालोच्य कार्यगौरवमभ्यनुज्ञातः, प्रमदवनमध्य एव संनिधावाक्रीडपर्वतस्य नाति सर्वं नातिविस्तीर्णम् अतिमनोहरतया सुरलोकवासिनामप्युत्पादितनिवासस्पृहं देवतागृहमकारयन् ॥
 
तत्र चातिप्रशस्तेऽहनि यथायोग्यमर्चितसमस्तपूज्यवर्गः, सर्वप्रतिमालक्षणोपेतां सर्वदोषनिर्मुक्तां भगवत्याः श्रियः प्रतिकृतिं यथाविधि प्रतिष्ठाप्य, प्रतिपन्ननैष्ठिकोचितक्रियो मुनिप्रदर्शितेन क्रमेण
प्रतिदिनमुपासांचक्रे ॥
 
तथ हि -- प्रातरेवोत्थाय प्रस्थितो गत्वा कृत्रिमाद्रिपरिसरसरिति गृहीतदन्तधावनो निर्वर्तितस्नानजपविधिः, परिधाय तत्कालधौते दुकूलवाससी, विधाय संध्योपासनकृत्यम्, आगत्यायतनम्, उत्तमाङ्गघटितग्रन्थिनोत्तरीयपल्लवेन मुद्रितमुखो मुखोद्गीर्णमुखरवारिस्रोतोभिः कनककुम्भैः सुचिरमेनामभ्यषिञ्चत् । एणनाभिकर्पूरकणसंतर्पितमोदेन च स्पर्शेन्द्रियहारिणा चन्दनद्रवेण विरचिताङ्गरागां सादरमुत्क्षिप्तकृष्णागुरुक्षोदधूपः प्रणम्य परमया भक्त्या, पुरस्तान्नातिदूरे समुपविष्टो मुखनिविष्टनिश्चलदृष्टिः पुष्टार्थाभिः स्तुतिभिरतिचिरं तुष्टाव । समापितमन्त्रजपविधिश्चातिक्रान्ते कियत्यपि समये विनिर्गत्य देवतागृहात्, दर्शनार्थमागतमुचितस्थानस्थितं गत्वा गुरुजनं ववन्दे । विहितमध्यंदिनावश्यकविधिश्चापराह्णसम-