This page has been fully proofread twice.

किमिति वारं वारमेनां नियमयसि । नन्वेकवचसैव सर्वमवधारितमनया, प्रतिपन्नं च मनसा । करिष्यति चाद्यप्रभृति सर्वं भगवदादिष्टम् । असावपि बुध्यते स्वयं वा अस्मन्मुखेन वा सखीवचनद्वारेण वा विवक्षितं वक्तुम्, अभ्युपगमावेदनेन च भगवतः प्रमोदं जनयितुम्, आत्मनो निर्वहणानिर्वहणे च चिन्तयितुम् । अथ वा न किंचिदुपदिष्टेमानेन । संप्रति प्रस्थिता वनमियम् ।
गतायां च तत्रास्याम् इह स्थितस्य मे निष्प्रत्यूहमुपजातं देवताराधनम् ।' इत्यभिधानं च पार्थिवमधिकतरमवनतानना रचितभङ्गुरभ्रुकुटिभूषणेन साभ्यसूयेव चक्षुषा तिर्यगैक्षत ॥
 
मुनिरपि मनागुपजातहासः 'राजन्, अतिमात्रमुत्सुकस्त्वमिदानीमेव वनमिमां नेतुमिच्छसि । विधेहि तावन्मन्त्रजपविधिम् । आराधितप्रसन्नया राजलक्ष्म्या वितीर्णम् आप्नोतु पुत्रवरमियम् । आसादयतु तत्प्रभावेण भुवनत्रयख्यातमहसमात्मजम् । ततो धृताधिज्यधनुषि भुवनभारधारणक्षमे तत्र निक्षिप्य निजराज्यसंपदं समर्प्य प्रजाः प्रस्थितेन स्वस्थमनसा त्वयैव सहिता गमिष्यति पश्चिमे वयसि वनम् । अस्माकमप्येतदर्थ एवायमारम्भः । अन्यथा गृहस्थकार्येषु सर्वारम्भनिवृत्तानां को यतीनामधिकारः ।' इत्युक्त्वा पुनरवादीत् -- 'नरेन्द्र, पुष्करद्वीपादागतेन मयापि जम्बूद्वीपवर्तिषु प्रधानतीर्थेषु संप्रति प्रयातव्यम् । अनुजानीहि माम् ।' इत्यभिधाय संवृतवल्कलांशुको जपन् शनकैराकाशगमनदायिनीं विद्याम्, आसनादुत्तस्थौ । अनूत्थितयोश्च तयोरादरकृतप्रणामयोः क्रमेण निक्षिप्य पक्षपातार्द्रतारकं चक्षुः, ईषदुत्क्षिप्तदक्षिणकरः स्फुटाक्षरोच्चारया गिरा दत्त्वाशिषम्, अन्तरिक्षमुदपतन् ॥