This page has been fully proofread twice.

॥ श्रीः ॥
 
॥ विज्ञापना ॥
 
आर्याः, विदितमेवेदं भवतां महिम्नः, यदुत बाणभट्टगद्यकाव्योपजीविनां गद्यसंदर्भाणामयमप्यन्यतमो धनपालकविविरचितस्तिलकमञ्जरीप्रबन्ध इति । अयं च ग्रन्थो निर्णयसागरमुद्रालयान्मुद्रापयित्वा यद्यपि बहिरवतारितः, तथापि तत्र दुःसहानामशुद्धीनामापतनान्न तावते फलाय कल्पते, यावते भाव्यमेनेन । तत्र च वितुषीकरणाय प्रवृत्तो न कश्चिदपि संपूर्णं साफल्यं विन्देतेति दर्शनमात्र एव सचेतसां प्रतिभास्यति । अहं च समधिकं परिश्रमं स्वीकृत्य यावन्मति अशुद्धीः परिहृत्य प्रायेण तादृशानि स्थलानि अत्र घटयित्वा तिलकमञ्जरीसंग्रहनामकमेतं सन्दर्भं सह टिप्पण्या सहृदयाद्वारा बहिरवातारयम् । अस्य चायं प्रथमो भागः । क्रमेण च भविष्यन्ति भागान्तराणि । यथामतिवैभवं सर्वतः समालोच्य प्रकटितेऽत्र प्रबन्धे पाठतो व्याख्यानतश्च वैलक्षण्यं गद्यकाव्यपरिशीलिनः स्वयमेव ज्ञास्यन्ति भावुका इत्यलमधिकावेदनेन ।
 
श्रीरङ्गनगरम् ।
२६ - १ - ९०९.
 
इति
विदुषामनुचरः
रा. चक्रवर्ति-कृष्णमाचार्यः ।