This page has not been fully proofread.

॥ श्रीः ॥
 
॥ विज्ञापना ॥
 
आर्याः, विदितमेवेदं भवतां महिम्नः, यदुत बाणभट्टगद्य-
काव्योपजीविनां गद्यसंदर्भाणामयमप्यन्यतमो धनपालकविविर-
चितस्तिलकमञ्जरीप्रबन्ध इति । अयं च ग्रन्थो निर्णयसागरमुद्रालया-
न्मुद्रापयित्वा यद्यपि बहिरवतारितः, तथापि तत्र दुःसहानामशुद्धी-
नाम/पतनान्न तावते फलाय कल्पते, यावते भाव्यमेनेन । तत्र च
वितुषीकरणाय प्रवृत्तो न कश्चिदपि संपूर्ण साफल्यं विन्देतेति
दर्शनमाल एव सचेतसां प्रतिभास्यति । अहं च समधिकं परिश्रमं
स्वीकृत्य यावन्मति अशुद्धी: परिहृत्य प्रायेण तादृशानि स्थलानि अत्र
घटयित्वा तिलकमञ्जरीसंग्रहनामकमेतं सन्दर्भ सह टिप्पण्या सह-
दयाद्वारा बहिरवातारयम् । अस्य चायं प्रथमो भाग: । क्रमेण च
भविष्यन्ति भागान्तराणि । यथामतिवैभवं सर्वतः समालोच्य
प्रकटितेऽत्र प्रबन्धे पाठतो व्याख्यानतश्च वैलक्षण्यं गद्यकाव्य-
परिशीलिन: स्वयमेव ज्ञास्यन्ति भावुका इत्यलमधिकावेदनेन ।
 
MOD
 
इति
 
श्रीरङ्गनगरम्
 
विदुषामनुचर:
 
२६-१-९०९. रा. चक्रवर्ति-कृष्णमाचार्यः ।