This page has been fully proofread twice.

राजापि सविनयाबद्धकरसंपुटः श्रद्धावता हृदयेन परमनुगृहीतमात्मानं मन्यमानो विधानतस्तां जग्राह । संज्ञादिष्टपरिजनसंपादितैश्च पुष्पैः फलैः पत्रैरंशुकै रत्नाभरणैश्च भूरिभिः परमया भक्त्या रोमाञ्चिततनुर्मुनिमर्चयांचकार ॥
 
विरते च पूजाया राजनि पुनः स्वस्थानोपविष्टे, प्रीतहृदयो मुनिः पात्रकृतोपकारतया कृतार्थमात्मानं मन्यमानस्तूष्णीक एव क्षणमात्रं स्थित्वा, किंचिद्विवलितकन्धरो भर्तुः पृष्ठभागे समुपविष्टां विनयनिभृतवपुषं प्रहर्षनिर्भरां मदिरावतीं प्रसादार्द्रया दृष्ट्या सुचिरमवलोक्य सस्मितमवादीत् -- 'राजपुत्रि, निवर्तितस्तावदरण्यगमनादेष ते प्रणयी जनः । नियोजितश्चातिदुष्करे देवताराधनकर्मणि । मा स्म कुप्यश्चेतसि ; यदस्माभिरकृत्वा प्रश्नम्, अश्रुत्वा प्रतिवचनम्, । अगृहीत्वानुमतिं महाभागायाः कृतास्य चेतसो नियन्त्रणा, निवारणा च विषयोपभोगसुखानाम् । अत्र च भवत्कल्याणसंपादनसत्वरा चित्तवृत्तिरेवापराध्यति । कल्पश्चायम्, यत् अस्य कतिचिद्दिनानि दूरस्थितयैव कल्याणभागिन्या सर्वापि कर्तव्या भर्तृजनोचिता प्रतिपत्तिः' इत्युक्ते महर्षिणा, मदिरावती त्रपातरलतारया दृशा अवलोक्य पत्युर्मुखमधोमुखी बभूव ।
 
तां च तथावस्थितां निर्वचनामधःस्रस्ताभिरलकवल्लरीभिराच्छादितकपोलदर्पणां करनखशुक्तिभिरलग्नमपि विलेपनाङ्कं चरणोर्मिकारत्नशकलेषु पुनः पुनरुल्लिखन्तीम्, अवनतग्रीवतया सम्यगविभाव्यमानामपि तत्कालकन्दलितापूर्वशोभाकमनीयस्य मुखचन्द्रस्य चारुतां रत्नकुट्टिमावलम्बिना प्रतिबिम्बेन पिशुनयन्तीं पुनः पुनरवलोक्य कृतस्मितो नरपतिर्मुनिमाबभाषे -- 'भगवन्,