2023-02-19 11:24:23 by ambuda-bot
This page has not been fully proofread.
तिलकमञ्जरीसंग्रहः ।
राजापि सविनयाबद्धकरसंपुट: श्रद्धावता हृदयेन परमनु-
गृहीतमात्मानं मन्यमानो विधानतस्तां जग्राह। संज्ञादिष्टपरिजन-
संपादितैश्च पुष्पैः फलैः पत्रैरंशुकै रत्नाभरणैश्च भूरिभिः परमया
भक्त्या रोमाश्चिततनुर्मुनिमर्चयांचकार ॥
विरते च पूजाया राजनि पुनः स्वस्थानोपविष्टे, प्रीतहृदयो
मुनि: पात्रकृतोपकारतया कृतार्थमात्मानं मन्यमानस्तूष्णीक एव
क्षणमात्रं स्थित्वा, किंचिद्विवलितकन्धरो भर्तुः पृष्ठभागे समुपविष्टां
विनयनिभृतवपुषं प्रहर्षनिर्भरां मदिरावती प्रसादार्द्रया दृष्टया
सुचिरमवलोक्य सस्मितमवादीत् - 'राजपुत्रि, निवर्तितस्तावदर-
ण्यगमनादेष ते प्रणयी जनः । नियोजितश्चातिदुष्करे देवताराधन-
कर्माणि । मा स्म कुप्यश्चेतसि ; यदस्माभिरकृत्वा प्रश्नम् अश्रुत्वा
प्रतिवचनम, । अगृहीत्वानुमतिं महाभागायाः कृतास्य चेतसो निय-
न्त्रणा, निवारणा च विषयोपभोगसुखानाम् । अत्र च भवत्क-
ल्याणसंपादनासत्वरा चित्तवृत्तिरेवापराध्यति । कल्पश्चायम, यत्
अस्य कतिचिद्दिनानि दूरस्थितयैव कल्याणभागिन्या सर्वापि
कर्तव्या भर्तृजनोचिता प्रतिपत्ति: ' इत्युक्ते महर्षिणा, मदिरावती
त्रपातरलतारया दृशा अवलोक्य पत्युर्मुखमधोमुखी बभूव ।
,
,
,
तां च तथावस्थितां निर्वचनामधः स्रस्ताभिरलकवल्लरीभिरा-
च्छादित कपोलदर्पणां करनखशुक्तिभिरलनमपि विलेपनाङ्कं चर-
णोर्मिकारत्नशकलेषु पुनः पुनरुलिखन्तीम् अवनतप्रीवतया सम्य-
गविभाव्यमानामपि तत्कालकन्दलितापूर्वशोभाकमनीयस्य मुख-
चन्द्रस्य चारुतां रत्नकुट्टिमावलम्बिना प्रतिबिम्बेन पिशुनयन्तीं
पुन: पुनरवलोक्य कृतस्मितो नरपतिर्मुनिमाबभाषे– 'भगवन्,