This page has been fully proofread twice.

विषादम् । मा समुत्पादय चित्तखेदमस्याः सदा सुखोचिताया निजप्रणयिन्याः प्रतिकूलाचरणेन । मुञ्चारण्यगमनस्पृहाम् । गृहावस्थित एव कुरु देवताराधनम् । अङ्गीकुरु मुनिव्रतक्रियाम् । किं च ते
दूरवर्तिनीभिरपराभिर्दुराराधाभिर्देवताभिः । इमामेव प्रकृतिसौम्यां सततसंनिहितामुपास्स्व सकलक्षितिपालकुलदेवतां राजलक्ष्मीम् । इयं हीक्ष्वाकुभरतभगीरथादिभूपालपराक्रमक्रीता त्वदन्वयनिसर्गपक्षपातिनी त्वया धार्मिकेण निगृहीतेन्द्रियवृत्तिना प्रमादपरिहारिणा
विधिवदाराध्यमाना नियमात्प्रसादं गमिष्यति ; अभिमतार्थविषयं च वरमचिरेण वितरिष्यति । अमूं च भक्तिप्रवणेन चेतसा गृहाण अपराजिताभिधानामशेषविद्याधरेन्द्रपूजितां विद्याम् । कुरु दिवसस्य रात्रेश्च भागत्रयमशून्यं देवतार्चनेन । अवसाने च तस्य, जप जप्यचरित, समाहितेन चेतसा । भक्तिमज्जनैकचिन्तामणिमिमामवेहि । महाप्रभावासौ प्रयत्नवता पुरुषविशेषेण सततमाराध्यमाना,
नास्ति तत्फलम्, यन्न साधयति । फलाभिमुखीभूता च त्रिलोकीपतेः पुरंदरस्यापि चेतो विधेयीकरोति, किमुतापरासां देवतानाम् । केवलं कर्तव्येषु दृढमप्रमादिना भवितव्यम् । आलोचितव्यं च सम्यक्प्रज्ञया प्रस्तावोचितमनुष्ठानम् । प्रज्ञोद्यमावरणिमन्थाविव हविर्भुजः पितरौ कार्यसिद्धेः; तौ हि पुरुषव्यापारानुगृहीतौ, नास्ति तद्वस्तु, यन्न साधयतः ।' इत्यभिधाय कृतपार्श्वावलोकनो विहितमन्त्रदेवतानुध्यानस्मरणविधिर्विधाय नरपतेरात्मनश्च वपुषि रक्षामन्त्राक्षरमयं कवचम्, उपकर्णमूलमनुच्चकैरुच्चरिताक्षरपदस्तां विद्यां न्यवेदयत् ॥
 
[commentary]
 
इतीति । इमां अपराजितां नाम विद्याम् । असौ अपराजिता नाम विद्या ।